________________
-II. $ 27 : Verse 127] कुवलयमालाकथा २
*23 1 ६२६) अथ सजीकृतं यानपात्रम् । गृह्यन्ते क्रयाणकानि । उपचर्यन्ते निर्यामकाः। निर्णीयते 1 निमित्तविद्भिर्यात्रादिवसः। स्थाप्यते लग्नम् । निरूप्यन्ते निमित्तानि । विलोक्यन्ते उपश्रुतयः। संमान्यन्ते विशिष्टजनाः । अय॑न्ते देवताः। सज्जीक्रियते सितपटः। ऊर्द्धः क्रियते कूपस्तम्भः। संगृह्यते काष्ठसंचयः। 3 स्थाप्यते परिग्रहः। आरोप्यते भक्तम् । भ्रियन्ते जलभाजनानि । एवं कुर्वतस्तस्य समागतो यात्रादिनः। तत्र च तौ कृतमजनौ मुदितचेतसौ सुमनोमालाविलेपनवासो ऽलङ्कारालंकृतौ द्वावपि सपरिजनौ यान6 पात्रमारुरुहतुः। चलितं यानपात्रम् । वादितानि तूर्याणि । चालितान्यरित्राणि । ततः प्रावर्तत गन्तुं 6 जलधौ यानपात्रम् । अनुकूलो वायुर्ववौ । कियतापि कालेन वहन रत्नद्वीपं ययौ । तस्मात्तावुत्तीर्यातीव रम्यतमं प्राभृतं गृहीत्वा भूपचरणयुगलमभिगम्य लब्धप्रसादविशदमानसौक्रयविक्रयं विरचय्य व्यावृत्य निजकुलाभिमुखमुत्सुको प्रचेलतुः। अनुकूलवायुना वहनं प्रेर्यमाणं समुद्रान्तः परिवीक्ष्य लोमदेवेन 9 व्यचिन्ति । 'अहो, प्राप्तो मनोरथादधिकतरो लाभः। संभृतं च रत्नैर्यानपात्रम् । तावत्तटं प्राप्तस्य वहन
स्यैष मम भागी भावीति न सुन्दरमेतत् ।' इति चितयन् लोभदेवो ऽवगणय्य दाक्षिण्यं समवलम्ब्य 12 निष्करुणत्वं शरीरचिन्तायां समुपविष्टं रुद्रवेष्ठिनं जलधौ पातयामास । तस्मिन् यानपात्रे योजनत्रयमति-12
क्रान्ते लोभदेवेन महता शब्देन पूच्चके 'अये, धावत धावत, मम वयस्यो दुरुत्तारे प्रचुरमकरधोरे सागरे पपातेति।' इत्याकर्ण्य निर्यामकलोकः परिजनश्च वीक्षितुं प्रवृत्तः। तैरुक्तं 'कुत्र पपात'। तेन निगदितम् । 15 'अत्रैव पतितो मन्ये मकरेण गिलितश्च । मया जीवतापि किम् । अहमपि तद्वियोग दुस्सहमसहमान:15 प्राणत्यागं विधास्ये।' एतन्निशम्य सत्यं विमर्य.कर्णधारकैः परिजनेन च प्रबोध्य स्थापितः। यानपात्रमपि
प्रचलितम् । स रुद्रश्रेष्ठी अकामनिर्जरया जलधौ महामकरवदनकुहरदंष्ट्राक्रकचगोचरीभृतोऽवसानं प्राप्य 18 रत्नप्रभापृथ्याःप्रथमे योजनसहने व्यन्तरभवने ऽल्पैश्वर्यपरोराक्षस उत्पेदे। तत्र तेन विभङ्गज्ञानवशतो 18 मकरण गिलितमात्मकायं गच्छद्यानपात्रं च विलोक्य चिन्तितम् । 'अरे, एतेन पापिना लोभदेवेनाहमत्र प्रक्षिप्तः। अहो, दुराचारस्यास्य साहसम् । न गणितः स्नेहसंबन्धः । न धृतश्चित्ते परोपकारः। न कृतं 21सौजन्यम्।' इति चिन्तयतस्तस्यानल्पः कोपानलो जज्वाल। पतेनेति चिन्तितम् । 'यद व्यापाद्य सद्य: 21 सर्वस्यार्थस्य भाजनं भविष्यामि । तत्तथा करिष्ये यथैतस्यापि नान्यस्य वा भवति। इति चिन्तयित्वा राक्षसो मध्ये समुद्रमाययौ। तत्र बहित्रं विलोक्य कौणपःप्रतिकूलमुपसर्ग कर्तुमारब्धवान् ।
$२७) अथाभूच्छयामलं मेघमण्डलं मरुदध्वनि । रुद्राभिधानं वीक्ष्येव श्रेष्टिनं गतजीवितम् ॥ १२१24 भ्राम्यन्ति परितोऽप्यभ्रं घना विद्युद्विलोचनाः पश्यन्तःश्रेष्ठिनमिव साः स्नेहिस्वभावतः॥१२२ वर्षन्त्यमोघधाराभिः खैरं धाराभृतो ऽम्बुधौ । निशातशरराजीभिरिव वीरा रणाङ्गणे ॥ १२३ विश्वमन्धीकृतं विश्वमुदितै—मयोनिभिः। पुत्रा अनुहरन्ते हि पितरं नितरामिह ॥ १२४ लोलकल्लोलमालाभिःप्रेर्यमाणं मुहर्महुः । प्रचण्डपवनोद्धतं प्राणिप्राणभयावहम् ॥ १२५
तद्रोषवशतः पारावारान्तर्वहनं वहत् । अगण्यपण्यसंकीर्ण त्वरितं स्फुटमस्फुटत् ॥ युग्मम् ॥ १२६ 30 लोभदेवो ऽम्बुधौ द्वीपमिव नीरं मराविव । भवितव्यतया प्राप फलकं तत्र चालगत् ॥ १२७ 30
सप्तभिरहोरात्रैस्ताराद्वीपमायातवान् । स तत्र समुद्रवेलावनपवनेन शीतलेन प्रत्युजीवित इव क्षणम् । ततस्तत्तीरवासिभिःकृष्णकायकान्तिभिः शोणलोचनर्यमदूतैरिव पुरुषैर्जगृहे । ततो लोभदेवो जगाद 'भव33 द्भिरहं कथं गृह्ये।' तैः कैतवेनोक्तम् । 'भद्र धीरो भव, मा विषादं भज, यदस्माकमेष नियोगः पोतवणिजो 33
ऽवस्थां पतितस्य स्वागतं विधीयते' इति । एवंविधं जल्पद्भिस्तैलोभदेवो गृहमानीय विनयवामनैर्विष्टरे निवेश्य सवनस्त्रानं भोजनाच्छादनविधि विधाय जल्पितः। 'भद्र, चेतसि विश्वासं समाधय, मा भयस्य 36भाजनं भव।' तत इत्याकर्ण्य चिन्तितमनेन । 'अहो, अयं कीदृगकारणवत्सलो लोकः। स यावदिति 36 चिन्तयन्नस्ति तावत्तनिष्कृपस्तं बद्धा बाढं शस्त्रेण मांसलप्रदेशं विदार्य मांसमुस्कर्तितं शोणितं च जगृहे।
स पुनरौषधयोगेन विलिप्ताङ्गोऽक्षतशरीरो जज्ञे । पुनरपि षद्भिर्मासैरतीतैस्तस्य तदेव कृतम् । पुनरपिस 39 पटुतरशरीरः कृतः। एवमनया रीत्या तस्यास्थिपञ्जरावशेषस्य समुद्रान्तःस्थस्य द्वादशवत्सरी व्यतीयाय । 39
27
.
2) PB निमित्तवद्भिर्या'. 3) 05 सितपट B has a marginal gloss thus: सिढ इति प्रसिद्धः. b) Pा वासोलकारपरिवृतौ दावपि. 6) 0 अरित्राणि B has a marginal gloss आउला. 8) ० "भिगम्य नमश्चक्रतुः । (ततः) लब्ध, ० रत्नान्युपायं for व्यावृत्त्य, ० निजकुला'. 12) जलधौ घातयामास. 13) Pn inter. प्रचुरमकरधोरे & सागरे. 14) परजनश्च. 16) FB एतनिशम्य सम्यकर्णधारकैः. 19) P.B एतेन लोभदेवेन पापिना अहमन्त्र-29) B अगण्यपुष्य. 34) Pom.ति. 35) B सविनयस्नानभोजना", " विश्वासमाश्रय. 37) PP मांसमुत्कीर्तितं.
www.jainelibrary
For Private & Personal Use Only
in Education International