________________
15
-II. F17 : Verse 90] कुवलयमालाकथा २
* 17 1 मित्तं स्वकीयं जीवितं ममापि च संशयदोलामारोपितम्' इत्याकर्ण्य गौराङ्गी प्रियं प्रति वाक्यमाह स्म 1 'यत्र सा सौभाग्यवती कमलदलदीर्घलोचना श्यामागी निवसति तत्र त्वमपि गच्छ' इति । मानभटे3 नोक्तम्। 'प्रिये, सर्वथैवास्य वृत्तान्तस्यानभिज्ञः। का श्यामाङ्गी, केन कदा दृष्टा, केन तव पुरो निवेदितम्, 3 इति कथय।' एतन्निशम्य सा रोषानलदह्यमानमानसा बभाण। 'अधुना त्वमनभिज्ञोऽसि यदा त्वया दोलाधिरूढेन सखीजनपुरतस्तस्याः श्यामाझ्या गीतमुद्गीतमेतत्कथं विस्मृतम् । एवमुक्त्वा तया 6 महापुण्यारण्यस्थमुनिनेव मौनमवलम्ब्य स्थितम् । मानभटेन चिन्तितम् । 'यदसावकारणे ऽपि कोप- 6 पर्वतमारुरोह'। ततस्तेन प्रसाद्यमानापि सा पुनःपुनर्न किंचिजल्पितवती। केवलममानं मानमेवाश्रित्य स्थितवती। मानभटेन चिन्तितम् । 'यदेतस्या रोषपोषितचित्ताया अनुनये पादपतनमेव हितम्' इति विचिन्त्य तेन तदेव कृतम् । परं तेन कृतेनापि प्राज्याज्यसंसिक्तज्वलनज्वालेव साधिकतरं क्रोधदुर्धरा 9 बभूव, न पुनश्चेतसि शमरसं पुपोष। ततःस मानभटश्चिन्तयति स्म। 'युक्तमेषा मृगाक्षी प्रसाद्यमानापि नाम न प्रसीदति स्म । यत ईदृश्य एव स्त्रियो भवन्ति ।
प्रत्यासन्ना भवेन्मोक्षलक्ष्मीर्मोक्षाभिलाषिणाम् । न जायते ऽन्तरा नाम दुस्तरा स्त्रीनदी यदि ॥ ८४ 12 सेवन्ते कामुकाः कामतापच्छेदाय कामिनीः। परं प्रत्युत जायन्ते महासंतापभाजनम् ॥ ८५ सौदामिनीव संध्येव निम्नगेव नितम्बिनी। चञ्चलप्रकृतिदृष्टनष्टरागातिनीचगा ॥ ८६ विवेकपङ्कजं हन्ति मानसे महतामपि । कामिनीयं हिमानीव कस्तामिच्छति तत्सुधीः ॥ ८७ 16 विवेकपर्वतारूढान् गुणप्रौढानपि द्रुतम् । हेलयापि महेलासौ वीक्षितेनापि पातयेत् ॥ ८८ ।
नवीना कापि दृश्येत शस्त्रीव स्त्री शरीरिणाम् । आदीयन्ते यया प्राणा बाह्या आभ्यन्तरा अपि ॥ 18 १७) इति चिरं विचिन्त्य वासभवनान्निामृतो मानभटो जनयित्र्याप्रच्छि 'पुत्र, कथय किमेतत् 118 ततः स तस्या अदत्तस्वप्रतिवचनो बहिर्निर्गतः। कान्तया चिन्तितम् । 'अहो, वज्रकठिनहृदयास्मि येन भर्तुः स्वयं पादपतितस्यापि न प्रसन्नामवं ततो नवरं कृतम्, पुनः पुनः पदपतनाप्रसादवीक्षापन्नो 21मम प्राणेशः कुत्र जगाम, इति न सम्यग् जानामि, तस्मादमुष्य पृष्ठलग्ना बजामि' इति चिन्तयित्वा 21 वासवेश्मतो निर्गता। 'पुत्रि, क्व चलितासि' इति श्वश्रूपृष्टा 'मातः, तव पुत्रः क्वापि प्रस्थितः' इति
बदन्ती सा त्वरितपदं प्रधाविता ससंभ्रमं, पृष्ठे श्वश्ररपि । चिन्तितं च तत्पित्रा वीरभटेन । 'सर्वमेव 24 कुटुम्ब क्वापि प्रस्थितम्' इति चिन्तयन् सोऽपि तेषां मार्गे लग्नः। ततःस मानभटो घनतिमिराच्छादिते 24 कूपनिगमे वजन् तया कथमप्युपलक्षितः। स च बहुपादपशाखासहस्रसंजातान्धतमसस्य कूपस्य
तटमाजगाम । तत्र च तेनोपलक्षिता पृष्ठतः समायान्ती निजजायेति । तामवलोक्य 'एतस्याः परीक्षां 27 करोमि' इति विचिन्त्य तेन कृपान्तः शिला निक्षिप्ता। तच्छिलापतनसंजातशब्दमाकर्ण्य 'मम पतिः27 पतितः' इति मत्वा तद्भार्या दुःखावटे.त्वरितमात्मानं मुमोच। ततः श्वश्रूरपि तदुखदुःखिता स्वं मुक्तयती, ततस्तस्या दुःखेन महता पृष्ठलग्नः श्वशुरोऽपि । ततत्रितयमपि विनष्टं दृष्ट्वा स चेतसि चिन्तितवान् । 30'मयात्र किं कर्तव्यम्, एतेन दुःखेनात्मानं किं कृपे क्षिपामि, अथवा न' इति विचार्य तेन प्राप्तकालमेतेषां 30 मृतानां निवापक्रियामातन्य परमवैराग्यमागतेन विषयान्तरं परिभ्रम्य परिभ्रम्य लोकेन निवेदितानि भैरवपातगङ्गास्नानप्रभृतीनि समाचरताभार्यामातृपितृवधप्रभूतसंभूतदुरन्तदुरितजातोपशान्तये कौशाम्बी 33 नगरी भेजे। भो नरेश, तदयं वराको ऽनभिज्ञो मूढमना लोकोतया तीर्थानि करोति । यदि तावञ्चित्त- 33 शुद्धिस्तदा पुरुषो गृहे ऽपि तिष्ठन् पापं क्षिणोति । ततः सर्वथैव मनःशुद्धिरेव विधेया।
चित्तशुद्धि विना दत्तं वित्तं पात्रे ऽपि सर्वथा । तथा क्रियाकलापश्च भस्मनीव हुतं वृथा ॥' ९० 36 एवं निशम्य गुरूदितं मानभटो मानमपनीय भगवतो धर्मनन्दनस्य चरणमूलमाश्रितः। ततः प्रतिबुद्धेन 36 मानभटेन प्रवज्या याचिता। सूरिणा समादिष्टम् । 'वत्स, अतुच्छस्वच्छतानिधे, सर्वदैव निरतिचारं
चारित्रप्रतिपालनं दुष्करमेव । यत्र कर्तव्यं केशोत्पाटनम् । नित्यमेव प्राणातिपातविरत्यादीनि व्रतानि 39 निरतिचाराणि धारणीयानि । वोढव्यो ऽष्टादशसहस्रशीलाभारः। भोक्तव्यमरसविरसं रूक्षं भैक्षम् । 39 पातव्यं प्रासुकैषणीयं निःस्वादु जलम् । शयितव्यं भूमौ । दुस्सहपरीषहोपसर्गवर्गसंसर्गे ऽपि न मना
1) B इत्याकर्ण्य कर्णशूचिक्षेपादिव । दूनोवाच । तव मानसे कमलदलदीर्घलोचना. 2) P सौभाग्यभा for सौभाग्यवती. 4) B त्वमझोसि. 18) PH वासभुवना. 19) B अदत्तप्रतिवचनो. 20) स्वयं पट (६१) पति. 23) 0 मातुस्तव, ०क्व for क्वापि. 26) B निजा जायेति. 32) inter, प्रभूत & संभूत. 37) Bवच्छ स्वच्छगुणातुच्छ सर्वदैव. 39) Bादशशीलांगसहयभारः, B विरसरक्षं.
3
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org