________________
* 18
रत्नप्रभसूरिविरचिता
[ II. $18: Verse 91
1 गपि शैथिल्यमाधेयम् । यन्मदनदन्तैर्लोहचणकभक्षणं सुकरं न पुनर्जिनप्रणीतव्रतप्रतिपालनम् ।' ततः 1 श्री धर्मनन्दनगुरोरुपदेशवचः पीयूपं मानमहाविषमविपद्प निर्दलन समर्थ माकण्ठमुत्कण्ठया निपीय 3 मानभटः प्रव्रज्यां जग्राह ।
। इति माने मानभटकथानकम् ।
१८) पुनरपि गुरुराह ।
'ध्ये यदि कल्याणमात्मनो भव्यजन्तवः । तदार्जवकृपाणेन च्छेद्या माया प्रतानिनी ॥ ९१ मायानदी महापूरं यद्यमूर्ख तितीर्षसि । ऋजुत्वाख्यतरीं तृर्ण ततः सजय यत्नतः ॥ ९२ माया रात्रिचरी ज्ञेया जगज्जन्तुभयंकरी । अवक्रचित्तसद्भावस्फूर्जन्मन्त्रप्रभावतः ॥ ९३ मायानृतखनिर्येन कृता स्यात्तस्य दुर्गतिः । न कृता येन तस्येह श्रेयः श्रीर्वशवर्तिनी ॥ ९४ माया दुर्नयभूपालकेलिभूमिरियं वरा । जननी विश्वदुःखानां काननं पापभूरुहाम् ॥ ९५ माया क्रियमाणा यशोधनं मित्रवर्गे च नाशयति । जीवितव्यं च संशयतुलामारोपयति । भो नरेश्वर, 12 यथैष पुरुषः ।' भूभृता प्रोक्तम् । 'भगवन्, न जानीमो वयं कः स पुरुषः, किमेतेन कृतम् ।' श्रीधर्मनन्दनः 12 प्रोचे । य एष तव संमुखः पाश्चात्यभूभागे मम स्थितः संकुचित देहभागः कृष्णकायकान्तिः पापीयान् दृश्यते स मायावी । अनेन मायाविना यत्पूर्व कृतं तदाकर्ण्यताम् । तथा हि,
6
9
15
15
18
जम्बूद्वीपाभिधे द्वीपे क्षेत्रे भरतनामने । काश्यदेशे ऽस्ति विख्याता पुरी वाराणसी वरा ॥ ९६ स्फुटं स्फाटिकयद्भित्तौ यत्रेक्षन्ते मृगीदृशः । चरन्त्यो ऽपि निकेतान्तः स्व आदर्श इवानिशम् ॥ ९७ दुःखं तु त्यागिनामेव सर्वैश्वर्यविराजिनाम् । कदाचनापि प्राप्यन्ते याचनाय न याचकाः ॥ ९८ यत्र कामानलो यूनामदीपिट कुतूहलम् । संध्यासमीरणैः सिद्धसिन्धुसीकरहारिभिः ॥ ९९ या चतुर्दशस्वमजन्ममहिस्रः अमूर्तमूर्तिरमणीयता तिरस्कृतानल्पकन्दर्पस्य उत्पन्नविमलकेवलज्ञानावलोकिता शेष पदार्थ सार्थस्य संसारोदरविवरसंचरिष्णुस कलजन तात्राणदानोद्धत विशुद्धसद्धर्म देशनासिंह21 नाद विधुरितसकलकुमतकरिवरस्य सुरासुरनरेश्वर संसेव्यमान चरणारविन्दयुगलस्य तीर्थकृतो भगवत- 21 त्रिजगदानन्दनस्य श्रीवामानन्दनस्य जन्मभूमिः । तस्या नगर्याः पश्चिमोत्तर दिग्विभागे शालिग्रामो
नाम ग्रामः ।
33
3
1) PB माधेयं । यलोहचणकक्षक्षणं न पुनर्जिन- 4 ) BCom. इति. 12 ) । वयं कोपि पुरुषः वयं कोपि स पुरुषः- 13) P B पाश्चात्य भागे. 14 ) PB "विना पूर्वं यत्कृतं. 15) P B का देश- 19) Bonit या, B तिरस्कृताऽनल्पकंदर्पदस्थ 25 ) P° गंगादेव्याख्यः. 34 ) B दुर्जनयोः चंदनतरुपिचुमंदयोरिव 37 ) Builds नदी after गिरि, om. पुरन तिष्ठं eto. ending with द्रव्य.
Jain Education International
6
24
24 अन्धुभिर्बन्धुरोऽगाधैः संकटो विकटैर्वटैः । मञ्जुलो वञ्जुलश्रेण्या चित्तप्रीत्यै न कस्य यः ॥ १०० ६१९ ) तत्र चैको वैश्यजातिर्गङ्गा दित्याख्यः पॅरिवसति । तत्र ग्रामे धनधान्यसमृद्धे ऽपि स वैको दारिद्रयमुद्राविद्रुतः । कुसुमशरसमानरूपेऽपि जने स एवैको वैरूप्यधारी । किं बहुना, स 27 एवैको दुर्वचनपरो निखिलजनोद्वेजनीयदर्शनः कृतघ्नः कर्णेजपः सर्वागुणगणमन्दिरं च । तस्य ग्रामजनेन 27 मायाशीलस्य पूर्वनाम गङ्गादित्य इत्यवमत्य मायादित्य इत्यभिधा विदधे । भो नरेन्द्र, स चायं गायादित्यः । तत्र ग्रामे वणिक्पुत्र एकः पूर्वसुकृतसंचयक्षयपरिक्षीणद्रविणः स्थाणुरित्याख्यः । तस्य 30 तेन मायादित्येन समं प्रीतिरुत्पन्ना । स च स्वभावेन सरलः कृतशः प्रियवादी दयालुरवञ्चनपरः सदा 30 दीनवत्सल नादीनवश्चेति । तेन स्थाणुना ग्रामवृद्धजनेन प्रतिषिध्यमानेनापि सौवचित्तप्रविशुद्धतया मायादित्यस्य समीपं [ सामिप्यं ] न कदापि मुच्यते ।
साधुवाणि दुर्जनानां मनांसि न । आर्जवेनार्पयत्येव स्वकीयं मानसं परम् ॥ १०१ ततस्तयोः सज्जनदुर्जनयोः प्राज्ञमन्दयोरिव मरालवकयोरिव भद्रगजबर्बरकृलगजयोरिव स्वभावेन स्थाणोः कैतवेन मायादित्यस्य तु मिथः प्रीतिरवर्धत । अन्यदा विश्वस्तचेतसावन्योन्यं विविधान् 36 धनोपार्जानोपायान् परिकल्प्य स्वजनवर्ग परिपृच्छय कृतमङ्गलोपचारौ गृहीतपाथेयौ दक्षिणदिशाभिमुखं 36 जग्मतुः । तत्र ताभ्यामनेकगिरि सरिच्छा खिश्वापदसंकुलं वनं दुर्लङ्घ्यमुल्लङ्य स्वर्गपुरप्रतिष्ठं प्रतिष्ठानपुरमवाप्य विविधवाणिज्यादि कर्म कुर्वाणाभ्यां कथंचित्प्रत्येकं पञ्च काञ्चनसहस्त्री समुपार्जिता । ततस्तौ 39 'द्रव्यमेतचौरभिल्लजनेभ्यः परित्रातुं दुष्करम्' इति विचिन्त्य स्वदेशं प्रति गमनसमुत्सुकमनसौ दश 39 सुवर्णसहरुमा दश रन स्वीकृत्य जरवीराञ्चले बद्धा मुण्डितमस्तकौ प्रावृतधातुरक्तवाससी विरचितदूरतीर्थयात्रिलोकवेषौ भिक्षां याचमानौ क्वापि मूल्येन कापि सत्रागारेष्वनती कमपि संनिवेशमीयतुः ।
For Private & Personal Use Only
9
18
33
www.jainelibrary.org