SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ * 6 रत्नप्रभसूरिविरचिता [I. 8 8 : Verse 23 1 अद्येदृशो वृत्तान्तः समभूत्' । देव्याः कोपकारणमात्मनः प्रतिशारोहणं च कथयामास । मन्त्रिभि- 1 रुक्तम् । 'देव, यतः 3 अङ्गणवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य धीरस्य ॥ २३ ३ तथा, पराक्रमवतां नृणां पर्वतो ऽपि तृणायते । ओजोविवर्जितानां तु तृणमप्यचलायते ॥ २४ 6 ततो देव, यत्त्वया चिन्तितं तत्तथैव । सुन्दरश्चैष ईदृशो देवस्याध्यवसायः । यतो भणितं पूर्वमुनि - 6 भिर्लोकशास्त्रेषु । यथा, अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च । तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्धर्म समाचरेत् ॥ २५ 9 अन्यच्च देव सर्वाण्यपि कार्याणि पिण्डपानीयप्रदानादीनि पुत्रं विना न संपद्यन्ते पुरुषाणाम् । भण्यते च । १ विद्यावतो ऽपि नो यस्य सूनुरन्यूनविक्रमः । वृथा तज्जन्म शाखीव पुष्पैराढ्यो ऽपि निष्फलः ॥ २६ तेन प्रधान एष स्वामिनः पराक्रमः । देव, तिष्ठन्तु सर्वे ऽप्येते शशिशेखरोपास्तिमहा मांस विक्रय12 कात्यायन्याराधनप्रमुखाः प्राणसंशयकारिणः सुतप्रात्युपायाः । समस्ति स्वस्तिकारिणी महाराजवंश - 12 प्रसूतपूर्व पुरुषसांनिध्याध्यासिनी राज्यलक्ष्मीर्भगवती कुलदेवता । तामाराध्यामाराध्य पुत्रवरं प्रार्थयस्व' इति । ततो राज्ञा जल्पितम् । 'साधु मन्त्रिपुङ्गवाः' इति प्रोच्य भूपतिरासनादुत्तस्थौ मन्त्रिगणश्च । 15 १९ ) अन्येद्युः स पार्थिवः स्वयं पुष्यनक्षत्रयुतायां भूतेष्टायामशेषत्रिकचतुष्कादिषु रुद्रादीन् 15 देवानभ्यर्च्य यक्षराक्षसादिभ्यो देवेभ्यो वलि दत्त्वा दुःस्थितान्धककार्प टिकादीननुकम्प्य निर्मितस्नानक्रियः प्रावृतधौतधवल दुकूलयुगलः श्रीखण्डद्रवचर्चिताङ्गः कण्ठकन्दलन्यस्त सुमनो मनोरममालः 18 परिजन घृतकुसुमव लिपट लिकोपचार सारः कमलादेव्यालयं प्रविश्य सपर्या विरचय्य दर्भ संदर्भितस्रस्तरे 18 निषण्णः कृताञ्जलिः स्तुतिं पपाठ । पद्मनाभविभोर्वक्षः पद्मभ्रमरवल्लभे । विधेहि पुत्रपद्मां मे पद्म पद्मासनस्थिते ॥ २७ 21 ततो नरेश्वरो भक्तिभर निर्भर हृदयस्त्रिरात्रं जितेन्द्रियः कुशमये स्त्रस्तरे स्थितवान् । तुरीय दिने च नृपो 21 ऽजातदेवतादर्शनामर्षवशः श्यामलकुटिलललाटपट्टघटित भ्रुकुटीभङ्गभीषणाननो वामेन भुजादण्डेन गृहीत्वा कुन्तलकलापं दक्षिणबाहुघृतखड्गरत्नेन कन्धरायां यावत्प्रहारं दातुमारब्धवान् तावदेवतया 24 हाहारववाक्य पुरःसरं तस्य स्तम्भितो भुजादण्डः । राजापि यावदुन्नमितास्यः पश्यति तावद्वदनविधु - 24 संनिधाने ऽपि विशेषविकचकरकमलपरिमलमिलदलिकुलझङ्कार मुखरितदिक्चक्रवाला कमलालया देवी राजकमला प्रत्यक्षीवभूव । १० ) तद्दर्शनसमुत्पन्नरोमाञ्चकवचो विस्मितवदनारविन्दः कृतप्रणतिः क्षितिपतिरासीत् 127 राजलक्ष्म्या भणितम् । 'भो नरेश्वरं विलक्षीकृतप्रतिपक्षलक्षवनिता वैधव्य स्थूललक्षं कृपाणरत्नं श्रीवायां किमित्यायास्यते ।' नृपेणोक्तम् । 'देवि, यत्त्वया त्रिरात्राभ्यन्तरे मम निराहारस्यापि न निजदर्शन30 मदायि । ततो राज्यश्रिया किंचिद्विहस्य प्रोक्तम् । 'वत्स, वद मया किं कार्य तव' इति । अथो 30 निगदितं मेदिनीशेन । 'देवि, प्रसादं विधाय सर्वकलाकलापनिलयः प्राज्यराज्यधुराधरणधौरेयः कुल मन्दिरावष्टम्भस्तम्भनिभः पुत्रः पवित्रगुणशाली दीयताम् ।' ततः स्थित्वा राज्यकमला समुवाच । 33 'महाराज, किं को ऽपि कदाचन मयि पुत्रो भवता न्यासीकृतो ऽस्ति, येन मां प्रार्थयसे ।' राशोक्तम् 133 'यद्यपि मया तनुजो न समर्पितस्तदवितथम् । परं कल्पलतासंनिधाने किमु को ऽपि बुभुक्षया विलक्षीक्रियते । स्वर्गापगा पुलिनावस्थाने ऽपि किं तृष्णया वाध्यते । असपत्न चिन्तारत्नप्रा36 तावपि किं दौस्थ्येन दूयते । त्वयि दृष्टायां किं को ऽप्याधिवाधामनुभवति ।' देव्या ऊचे । 'महाराज, 36 मया परिहासः कृतः । सर्वगुणसंपूर्णः पूर्णिमाचन्द्र इव कलाकलापनिलयस्तवैकः पुत्रो भावी' इति भणित्वा राज्यलक्ष्मीस्तिरोदधे । 27 39 $११ ) ततो नृपतिर्लब्धराज्यश्रीप्रसादः श्रीदेवीगृहान्निर्गत्य निर्मितस्नानभोजनः सभायामुपविश्य 39 मन्त्रिमण्डलमाकार्य च यथावृत्तं निवेदयामास । मन्त्रिभिर्जल्पितम् । 'देवगुरुप्रसादादेतद्भवतु ।' ततः 1) P देव्याश्च कोप- 5 ) ० नृणां, P सर्वतोऽपि for पर्वतोऽपि 6 ) P सुंदरश्च एष M सुंदरश्च । एष. 8) P B om. स्वर्गो नैव etc. to समाचरेत्. 9 ) ० संपद्यते 11 ) B शशिशेषरों 15 ) P स्वयं मनुष्यनक्षत्र. 17) 0 प्रावृत्तधौत, P 32 ) 0g कुलमन्दिरस्तम्भावष्टम्भः पुत्रः प्रदीयताम् । श्रीदेविग्रहा. 40 ) 0 प्रसादाद्भवतेतत् . चर्चितां कंठ ततः स्मिता. Jain Education International 18 ) Pom. कुसुम, P प्रस्तरे for स्रस्तरे- 30 ) P राजश्रिया. 35) og विलक्ष्मीक्रियते 37 ) PB स्तवैकपुत्रो 39 ) PB For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy