SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ -I. § 8 : Verse 22 ] कुवलयमालाकथा १ * 5 1 स्वीचक्रे । अर्पितश्च देवगुरोः सचिवाधीशस्य भणितश्च । 'तथा त्वयैष उपचरितव्यो यथा कदाचन 1 सौवपित्रोर्न स्मरति, सर्वथा तथा कर्तव्यं यथा ममापुत्रस्यैष पुत्रो भवति' इति । ततः किंचित्कालं 3 स्थित्वा राजा भद्रासनात्समुत्तस्थौ । कृत दिवसव्यापारस्य तस्यातिक्रान्तो वासरः । १७) अथान्यदिवसे बाह्यास्थानमण्डपमुपगतस्य दृप्तनरेन्द्रमण्डलीपरिगतस्य तस्य भूपतेः सुरगिरेरिव कुलशैलमध्यगतस्यागता धौतधवलदुकूलयुगलनिवसना मङ्गलग्रीवासूत्र मात्राभरणशोभमाना 6 सुमङ्गला नामान्तः पुरमहत्तरा, दृष्ट्रा च राक्षा प्रौढराजहंसीव ललितगतिमार्गा । सा च कचुकिनी 6 नृपतेर्दक्षिणकर्णे किंचिन्निवेद्य निर्गतवती । ततो भूधवः स्वयमनल्पविकल्प संकल्पदोलायमानहृदयः क्षणमास्थाने स्थित्वा विसर्जिताशेषसेवकलोकः कण्ठीरवपीठादुत्थितवान् । प्रियङ्गुश्यामाभवनं प्रति प्रच 'लताचलापतिना चिन्तितम् । 'अहो, सुमङ्गलया कथितं यदद्य देव्या बहुधा विविधभङ्गीभिर्भणितयापि 9 परिजनेनालङ्कारो ऽपि न कलयांचक्रे आहारो ऽपि न, केवलममानो मान एवावलम्बितः । किं पुनर्देव्याः कोपकारणम् । अथवा स्वयमेव चिन्तयामि, यतः स्त्रीणां स्वभावत एव पञ्चभिः कारणैः कोपः समुत्पद्यते । 12 तद्यथा प्रणय स्खलनेन १, गोत्रस्खलनेन २, अविनीतपरिजनेन ३, प्रतिपक्षकलहेन ४, श्वश्रूसंतर्जनेन ५ । 12 तत्र तावत् प्रणयस्खलनं न, येन मम जीवितस्याप्येषैव स्वामिनी तिष्ठत्वन्यस्येति । अथ गोत्रस्खलनमपि न, येनास्याश्चैवाहया सकलान्तःपुरपुरन्ध्रीजनमपि व्याहरामि । अथ परिजनो ऽपि कदाचन ममाशालोपी 15 भवति न पुनर्देव्याः । प्रतिपक्षस्खलनमपि न, येन सर्वो ऽप्यन्तःपुरजनो देवतामिव देवीं मन्यते । शेषं 15 श्वश्रूभण्डनं दूरत एव न येनास्माकं माता महामहीपतेरग्रे ऽग्निमाविश्य देवी भूतेति । ततः किं पुनरेतद्भवेत् । इति चिन्तयन् भूपतिर्देव्या वासवेश्म प्रविवेश । न पुनस्तस्य सा लोचनगोचरतां 18 जगाम । नृदेवेन पृष्टा चेटिका कापि 'कुत्र देवी' इति । तया निवेदितम् । 'देव, देवी कोपौकसि प्रविष्टा ।' 18 तत्र भूमीविभुर्ययौ । दृष्ट्रानेन देवी हस्तिनोन्मूलितेव कमलिनी, भग्नेव वनलता, प्रोत्क्षिप्तेव कुसुममञ्जरी । ततस्तां प्रेक्षमाणः क्षितिपतिस्तस्याः सविधवर्ती बभूव । तत आसनात्स विनयमलसायमाना चारुलोचना 21 समुत्तस्थौ निजमासन मदाच्च । उपविष्टो राजा देवी च । ततः पृथ्वीपतिरुवाच । 'प्रिये कोपने, किमे - 21 तदकारणे चैव शरत्समयवारिधाराहतसरोजमिवोद्वहसि वदनाम्बुजम् । नाहं किंचिदपराधं स्वस्यान्यस्य वा स्मरामीति । ततो मनः प्रसन्नतामानीय निवेदय । किं मया न तव संमानितो बन्धुजनः, किं वा न 24 पूजितो गुरुजनः, किं वा न संतोषितः प्रणयिवर्गः, अथवा न विनीतः परिजनः, अथ प्रतिकूलः सपत्नी- 24 सार्थः, येन कोपमवलम्ब्य स्थितासि ।' ततस्तद्वचः श्रुत्वा किंचित्सहास्यमास्यं निर्माय देवी सुधामुचं वाचमुवाच । 'देव, तव पदपद्मयुग्मप्रसादवशतः किंचिदपि न न्यूनमस्ति, किंत्वनेकभूमि नायकमौलि27 मुकुट माणिक्यकोटिनिघृष्टचरणयुगस्यापि तव प्रणयिनी भूत्वात्र वीक्षापन्ना जातास्मि । यादृशस्तस्यास्त- 27 रलदृशः पुण्यवत्यास्तनूद्भवः स्नेहभाजनं महेन्द्रकुमारस्तादृशो मम मन्दभाग्यायास्त्वयि नाथे सत्यपि नास्तीत्येतद्भावयन्त्याः स्वस्योपरि निर्वेदः, तवोपरि च मम कोपः समजायत' इति । ततो विस्मयस्मेर30 चेतसा नीतिप्रचेतसा विशामीशेन चिन्तितम् | 'पश्यताविवेकित्वं महिलाजनस्य यदलीकासंबद्धप्रल - 30 पितैर्हियन्ते कामिनीभिः कामुकजनस्य चेतांसि ।' ध्यात्वेत्युक्तम् । 'देवि, यदेतत्तव कोपकारणमत्र क उपायः । दैवायत्तमेतत्, नात्र पुरुषकारस्यावसरो नान्यस्य चेति । यतः, 33 अनुद्यमाय क्रुध्यन्ति स्वजनाय कुबुद्धयः । दैवायत्ताः पुनः सर्वाः सिद्धयो नेति जानते ॥ २२ 33 १८) तावदेवंविधे व्यवस्थिते कथमकारणे कोपमवलम्बसे ।' देव्या विशप्तम् । 'नाथ, नाहमकार्ये कुपिता, किंतु कार्य एव । किं यदि महीपतिरुद्यमं विधाय देवतामाराध्य संततिं याचते ततः कथं 36 मनोरथाः प्रमाणकोटिं नाटीकन्ते, अतः प्रसीदतु मम मन्दभागिन्याः स्वामी देवताराधनेन' इत्युक्त्वा 36 चरणकमलयुगले निपतन्ती राज्ञा भुजाभ्यां धृत्वा प्रोता । 'कान्ते, यत्खं वदसि तदवश्यं विधास्ये सर्वथैवाधृतिं मुञ्च । परित्यज संतापम् । कुरु भोजनम् । भज पञ्चगोचरसंभवं सुखम् । प्रिये, निशि39 तासिधारया त्रिनयनस्य पुरो हुत्वा स्वमांसं, कात्यायन्या अग्रतः शिरसा बलिं दत्त्वा वा, महाश्मशाने 39 भूतप्रेतपिशाचादिकं कमपि साधयित्वा, विद्यया वा पुरन्दरमपि समाराध्य मया तनुजो याचनीय एव ।' इति भूपवचनं समाकर्ण्य हर्षप्रकर्षप्रवृत्तसर्वाङ्गरोमोन्द्रमा प्रोत्फुल्लवदनाम्बुजा देवी समजनि । तत्तो 42 नृपतिरुत्थाय कृतमजनभोजनविधिर्विधिशं मन्त्रिगणं समादिदेश । 'भो भोः सुरगुरुप्रमुखाः सचिवाः, 42 1) P यदा कदाचन 3 ) P व्यापारस्यातिक्रान्तो. 13 ) P अथा गोत्र- 16 ) P माता महीपते 22 ) P धाराहतमिव सरोजमुद्रहसि, og स्वस्यापर स्व. 23 ) P सन्मानितो. 33 ) P प्यंति 35 ) P कार्य एव च । 39) og त्रिनेत्रस्य पुरो. 40 ) P पिशाचादिकं किमपि P inter. साधयित्वा & विद्यया, P मनुजो for तनुजो 42 ) P विपिर्विचितं, १ भो भो 3 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy