________________
श्रीजिनसूरमुनिवर्यविरचिता
मन्त्रिणम्-हारतस्करस्य भूमिदेवनैमित्तिकेन राज्यमुक्तमभूत, परं मदुक्तं शूलीराज्यं भविष्यति । मत्पुत्रा गोत्रिणश्च राज्यधारका वर्तन्ते । मन्त्र्याह-राजन् ! एवमेव ॥
तदवसरे जियश्चतम्रो दिव्यरूपा दिव्याभरणा दिव्यलोचना राजसभायां समागताः । राज्ञा तासां स्वागतं पृष्टम् । सभायां तद्रूपेण चमत्कारो जातः । नृपेण पृष्टा:-कुतो यूयं प्राप्ताः ? केन हेतुना अवागताः ? किं तीर्थयात्रार्थ किं स्वजनमिलनार्थवा? मद्योग्यं कार्य कथयन्तु । तन्मध्ये एका वृद्धा प्राह-राजेन्द्र ! 'पाडली'पुरात् प्राप्ताः । प्रियङ्करो मत्पुत्रो गृहाद् रुष्टो गतः, सर्वत्र गवेषितः, परं न लब्धः। वर्षद्वयं जातम् । अधुना 'अशोक'पुरात् तत्रागतेन केनाप्येकेनोक्तम्-प्रियङ्करो नाम्ना व्यवहारिपुत्र ईदृग्वया ईदृग्ररूपश्चतुरः परोपकारपरः समस्ति । तच्छुद्धिं सम्यगवगम्य वयमत्रागताः । पूर्व देवगृहे गत्वा देवा नताः । यत:
"आमलि जातां कोट, जेहिं न नामी देवगुरु ।
माथइ वहइंसि मो(पो)ट, भोअंण सांसई सांपडइ॥२१७॥" अत्रागतैरेकोऽस्माभिः पृष्टः-प्रियङ्करः क तिष्ठति । तेनोक्तम्-अद्य प्रियङ्करः सङ्कटे पतितोऽस्ति । राजमान्योऽपि
१ 'मद्रोत्रिणव' इति -पाठः। २ तात्पर्यम्
अप्रे गच्छद्भिः ग्रीवा यैः न नामिता देवगुरुन् प्रति । मस्तके वक्ष्यते पोलिका (महती)(तैः) भोजनं संशयेन सम्प्राप्स्यते ॥ ३ भोजननो सांसो पडे ' इति -पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org