SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । "सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । घृणुते हि विमृश्यकारिणं, गुणलुब्धाः स्वयमेव संम्पदः२१३ (-किरातार्जुनीये स० २, श्लो० ३०) " सुगुणमपगुणं वा कुर्वता कार्यजातं । परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्ते भवति हृदयदाही शल्यतुल्यो विपाकः ॥२१४॥" स्वामिन् ! अस्य विनय एव कुलीनत्वं सदाचारत्वं च कथयति । उक्तं च__"हंसा गति पिकयुवा कलकूजितानि नृत्यं शिखी परमशौर्यगुणं मृगेन्द्रः। .. सौरभ्यशीतललितं मलयाद्रिवृक्षाः . कैः शिक्षिता विनयकर्म तथा कुलीनाः १ ॥२१५॥" राजन् ! दैवविलसितमिदं ज्ञेयम् । राज्ञोक्तम्-मन्त्रीश्वर ! त्वया जामातृत्वादेतस्य पक्षः क्रियमाणोऽस्ति । परं चौरपक्षा कस्यापि न श्रेयस्करः । यत:. "चौरः चौरार्पको मन्त्री, भेदज्ञः क्रयविक्रयी। अन्नदः स्थानदश्चैव, चौरः सप्तविधः स्मृतः ॥२१६॥" ततो मन्त्री भीतस्तूष्णीं कृत्वा स्थितः । राज्ञा सेवकानामुक्तम्एष हारतस्करो दृढं बध्यताम् । ततस्तैस्तदैव बद्धः। राजाऽऽह १'सम्पदा' इति ङ-पाठः। २ 'कुर्वतः' इति -पाठः। ३ 'शैत्यललितं' इतिह-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy