________________
६८
श्रीजिनसूरमुनिवर्यविरचिता
यद् भाव्यं तद् भवत्विति विचिन्त्याग्रे गतः । तावतोच्चस्थाने स्थिता देव्यवक्तव राज्यं भविष्यति इति श्रुत्वा दध्यौ - देव्या विसंवादि वचनं तथापि साहसमालम्ब्य राजसभायां गत्वा यावद् राज्ञे प्रणामं करोति तावदकस्माद् देववल्लभहारस्तस्य शीर्षात् पतितः सभालोकै राजलोकैर्दृष्टः । सर्वेषामाश्चर्यमभूत् । यो हारो गतोऽभूत् स कुमारपार्श्वाल्लब्धः । कुमारश्रकितः । हा दैवेनासमअसं किं कृतम् ? | चिरकालार्जितं महत्त्वं चौरकलङ्केन सर्वं गतम् । मरणं समागतम् । दुर्गोक्तं सत्यं जातम् । यतः" चौर्य पापद्रुमस्येह, वधबन्धादिकं फलम् । ज्ञायते परलोके तु, फलं नरकवेदना ।। २१२ ॥"
पूर्वजन्मनि मया कस्यापि कलङ्को दत्तोऽभूत् सीतावत् । तत् कर्म ममाधुना समुपस्थितम् । ततोऽशोक चन्द्रो राजा एनं बद्ध्वा चौरदण्डः कार्य इति स्वतलारं समादिशत् । मन्त्री प्राहप्रियङ्करे एषा वार्ता न घटते । एष परोपकारी पुण्यवान् वर्तते । राज्ञा कुमारः पृष्टः । त्वं सत्यं वद । एष लक्ष्यमूल्यो हारः कुतस्त्वया गृहीतः ? कुतो लब्धो वा ? केनार्पितो वा ? केनापि वा तव गृहे स्थापितो वा ? सत्यं वद । कुमार आह-स्वामिन्! अहं किमपि न जाने । अद्य यावन्मया कदापि दृष्टो नास्ति । राज्ञो यद्विचारे समायाति तत् कारयेताम् । राजाऽऽह - कीदृग् मिष्टवागस्ति ? कीदृक् कलावानस्ति १ । मन्त्र्याह - एप मोनार्होऽस्ति । चौरदण्डार्हो नास्ति । विमृश्य करणीयम् । यतः -
• १ कुर्या: ' इति ङ-पाठः ।
<
Jain Education International
२ श्रावकोऽस्ति ' इति ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org