________________
प्रियङ्करनृयकथा।
चौरकलङ्केन सत्येन असत्येन वा निगडितोऽस्ति । तच्छुत्वा अनागताः। अद्यतनदिनं सफलं जातं हे राजेन्द्र! तव दर्शनेन । ततो राज्ञा प्रियङ्करो मुखाग्रे आनायितः। वृद्धा पाह-एप मत्पुत्रः । आलिङ्गनं दत्वा वत्स! केन कारणेन रुष्टोऽसि ? चेदरुष्टस्तर्हि कुटुम्ब विमुच्य कस्मादत्रागतः । द्वितीया आह-एष मम भ्राता । तयाऽपि तथैवालिङ्गनादि कृतम् । तृतीया आह—एष मम देवरः । चतुथ्योह-एष मम वरः । वन्मुखं विलोक्य स्थिता लज्जानम्रमुखी । सभायां सर्वेषां विस्मयो जातः । लोका वदन्ति-प्रियङ्करकपटं प्रकटीभूतम् । पत:
"विद्यादम्भः क्षणस्थायी, ज्ञानदम्भो दिनत्रयम् ।
रसदम्भस्तु षण्मासान, मौनदम्भः सुदुस्तरः ॥२१८॥" एके कथयन्ति-एतस्य पुरुषरत्नस्य पुण्यवतः चौरदोषो लगः । यतः"शशिनि खलु कलङ्कः कण्टका: पद्मनाले
जलधिजलमपेयं पण्डिते निर्धनत्वम् । स्वजनजनवियोगो दुर्भगत्वं सुरूपे
धनवति कृपणत्वं रत्नदोषी कृतान्तः ॥२१९॥" तं केचित् प्रशंसन्ति, केचिनिन्दन्ति, केचित् पश्चात्तापं कुर्वन्ति, केचिद् दैवमुपालम्भयन्ति, केचन तं हसन्ति तथापि स न कुप्यति । यतः
१'पुरत्नस्य' इति ड-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org