________________
श्री जिनसूरमुनिवर्यविरचिता
"वोवाणा जणबुलगा नाह न कीजइ रोस ।
नाक कापड पाणु (१) चंगइ माणस दोस ||२२०||" ततो वृद्धा प्राह - राजन् ! एनं मत्पुत्रं मुञ्च । राजाह - अनेन मंत्कोशाल्लक्षमूल्यो हारो गृहीतः, कथं मुञ्चामि १ । वृद्धयोक्तम् — दण्डं समर्पयिष्यामि । राज्ञोक्तम्-यदि लक्षत्रयं दास्यसि तदैवास्य मोक्षः । पुनः सा आह— लक्षत्रयं साधिकमपि दास्यामि । परमेनं मुञ्च । राजाऽऽह - एतस्य पिता कास्ति ? वृद्धा वक्ति-स्वामिन् ! उत्तार केऽस्ति । ततस्तमाकार्य राजा पृष्टवान् - एष प्रियङ्करस्तव किं स्यात् ? । तेनाप्युक्तम् - मत्पुत्रः । तथैव सर्वं प्रोक्तम् । राज्ञा मानितं च । मन्त्री प्राह - सर्वमध्यसत्यम् । एते धूर्ताः सन्ति । कुमारस्य पिता पासदत्तश्रेष्ठी अत्रैवास्ति । माता प्रियश्रीनाम्नी विद्यते । तावाकार्य प्रष्टव्यौ । राज्ञोक्तम्- तयोरेष पालकपुत्रो भविष्यति । किं पृच्छयते १ तथाप्याकार्यताम् । ततस्तौ राज्ञा आकारितौ समागतौ प्रणामं चक्रतुः । प्राघूर्णिकौ ग्रामस्थौ च पितरावुभावपि समानाकारौ समानरूपौ सहशवचनौ सहग्वधसौ किमित्र युग्मिनौ जातौ दृश्येते ? राज्ञो मन्त्रिणः सभालोकस्य चाश्वर्यं जातम् । राजाऽऽह - मन्त्रिन् ! त्वयोक्तं सत्यं जायमानमस्ति । तावन्योन्यं विवदेते पुत्रार्थे - राजन् ! न्यायः क्रियतां, नो चेदन्यराजकुले यास्यामः । राजाऽऽह मन्त्रिणम् – कापि बुद्धिचिन्त्या । १ तात्पर्यम् -
७२
वायुवानं (?) जनभाषणं, नाथ ! न क्रियते रोषः । शुभे मनुष्ये दोषः ॥
.........
२'नी कापण षायणं ( ? ) ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org