________________
प्रियङ्करनुपकथा ।
,
स आह-सभायां षोडशगजप्रमाणा समचतुरस्रा शिलाऽस्ति, यत्र सार्थवाहाः प्राभृतं कुर्वन्ति । तां य एकेनैव हस्ते - नोत्पाटयिष्यति स पिता स पुत्रं गृह्णीयात् । ततः अतिथिपित्रा सा शिला लीलया एकेनैव हस्तेनोत्पाट्य मस्तकोपरि छत्राकारेण धृता । सर्वेषां कौतुकं जातम् । मन्त्री ऊचे - एष न सामान्यः । राजाssह-त्वं पिता न भवसि किन्तु देवो वा दानवो वा विद्याधरो वा । स्त्रियोऽपि मानव्यो न स्युः, किन्तु देवाङ्गनाः विद्याधर्यो वा । कस्मादस्मान् विप्रतारयसि १ स्त्ररूपं प्रकटीकुरु । ततः स देवरूपो जातः । स्त्रियोऽपि अशीभूताः । राजेन्द्र ! अहं राज्याधिष्ठायको देवोऽस्मि । तव मरणसमयज्ञापनाय राज्याई पुरुषस्य राज्ये स्थापनाय चात्रागतोऽस्मि । त्वमद्यापि बहुतृष्णः बह्वाशातरलितोऽसि । यतः -
" अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम् । वृद्धो याति गृहीत्वा दण्डं
तदपि न मुञ्चत्याशापिण्डम् ॥ २२९ ॥ जरायामागतायां केनाऽपि किमपि न स्यात् । उक्तं च*"" बैल हुंती (ति) हउं पामउं एलेनु (१) धन (ण) ढोर । ए त्रणि विमासण करि बेसा चारण चोर ॥ २२२ ॥ "
·
Jain Education International
१ ' गृहीत्वा यातु' इति ङ. -पाठः । २ ' दानवो वा, किन्तु देवो वा, त्वं मनुषो न भवसि, विद्याधरो वा' इति ङ-पाठः । ३ 'देवो जातः' इति ङ पाठः । ४ तात्पर्यम् -
बले सत्यहं प्राप्नोमि निष्कारणं धनं पशून् । एते त्रयो विमर्शनं कुर्वन्ति वेश्या चारणचौरः ।
५ 'वार वहता याम तु ले तु पर धन ढोर' इति ङ-पाठः ।
७३
For Private & Personal Use Only
www.jainelibrary.org