________________
७४
श्रीजिनसूरमुनिवर्यविरचिता
तव मनसि कोऽपि विमर्शो नास्ति-अहं वृद्धो जातः, कस्य राज्यं ददामि। जीर्णस्तम्भभारं नव्यस्तम्भे स्थापयामि । राज्ञा पृष्टम्-कदा मम मरणमस्ति । देवः प्रोचे-इतश्च सप्तमे दिने मरणमस्ति । तदाकर्ण्य राजा भीतः । यतः
"पंथसमा नत्थि जरा दारिद्दसमो पराभवो नत्थि । __ मरणसमं नत्थि भयं खुहासमा वेयणा नत्थि ॥२२३॥"
ततो नृपेण देवः पृष्टः-राज्याह पुरुषं कथय यथाऽहं पट्टे स्थापयामि । देवः प्राह-प्रियङ्करस्य पुण्याधिकस्य राज्यं देहि, अपरस्य कस्यापि सभायां राज्यानहत्वात् । राजाऽऽह-राज्यदानं हारतस्करस्य न युक्तम् । यतः"कुराजराज्येन कुतः प्रजासुखं
कुपुत्रपुत्रेण कुतो निवृत्तिः । कुदारदारेण कुतो गृहे रतिः
कुशिष्यमध्यापयतः कुतो यशा१॥ २२४ ॥" देव आह"देशसौख्यं प्रजासौख्यं, चेद् वाञ्छसि नराधिप! । स्थापय त्वं तदा राज्ये, पुण्योत्कृष्टं प्रियङ्करम् ॥२२५॥'
१ छाया
पन्थसमा नास्ति जरा दारिद्यसमः पराभवो नास्ति ।
मरणसमं नास्ति भयं, क्षुधासमा वेदना नास्ति ॥ २ 'तं पदे,' इति -पाठः। ३ 'निज देशस्य सुस्वास्थ्य' इति ड-पाठः ४ 'पुण्याकृष्टं' इति क-पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org