________________
प्रियङ्करनृपकथा । एनं निरपराधं कुमारं मुश्च । हारोऽनेन गृहीतो नास्ति । अस्य कोशे तालके दत्ते गमनशक्तिः कथं स्यात् ? । तव कोशतः मया गृहीत्वा इयन्ति दिनानि हारः स्थापितो राज्ययोग्यं पुरुष ज्ञापयितुम् । मयैव त्वदने अस्य शीर्षात् प्रकटीकृतः। ततो राज्ञा कुमारो मोचितः । राजा वक्ति-मम पुत्राय त्वं राज्यं देहि । देवः प्राह-तव पुत्रस्यायुः स्तोकमस्ति । अपरं च प्रजाप्रियो नास्ति । राजेन्द्र ! यदि न मन्यसे तर्हि कुमारिकाचतुष्टयमाकार्य तिलकः कारणीयः । सभामध्ये यस्य कस्यापि प्रथमं तिलकं ताः स्वयमेव कुर्वन्ति स एव राजा भवतु । सर्वैरपि मानितम् । कुमारिका आकारिताः । वर्धापनिक हस्तेऽर्पितम् । तत्पार्धात् सभास्थानां तिलकं कारितम् । ताभिः प्रियङ्करस्यैव राज्यतिलकः कृतः । देवेन चतसृणां कुमारीणां मुखेऽवतीय श्लोकचतुष्कं कथितम् । यथाएका पाह"जिनभक्तः सेंदा भूयाः, नरेन्द्र ! त्वं प्रियङ्कर !
शूरेषु प्रथमस्तेन, रक्षणीयाः प्रजाः सुखम् ॥ २२६ ॥" द्वितीयाऽऽह“यत्र प्रियङ्करो राजा, तत्र सौख्यं निरन्तरम् । तस्मिन् देशे च वास्तव्यं, सुभिक्षं निश्चितं भवेत्॥२२७॥"
१ 'हारचौर्ये गमन.' इति ड-पाठः । २ "तिलकं कारणीयम्' इति ड-पाठः ।। ३ वर्धापन' इति ड-पाठः । ४ 'सदाचारो' इति ड-पाठः । ५ 'प्रथमः स्वीया" इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org