SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ७६ श्रीजिनसूरमुनिवर्यविरचिता तृतीयाऽऽह" 'अशोक'नगरे राज्यं, करिष्यति प्रियङ्करः। द्वासप्ततिश्च वर्षाणि, स्वीयपुण्यानुभावतः ॥ २२८॥" तुर्याऽऽह"प्रियङ्करस्य राज्येऽस्मिन् , न भविष्यन्ति कस्यचित् । रोगदुर्भिक्षमारीति-चौरवैरभयानि च ॥ २२९ ॥" ततो देवाः पुष्पवृष्टिं चक्रुः । अशोकचन्द्रराज्ञाऽपि स्त्रहस्तेन तिलकं कृतम् । प्रधानराजलोकैरप्यस्य प्रियङ्करस्य राज्याभिषेकः कृतः। प्रियङ्करस्याज्ञा सर्वत्राभूत् । पढे उपवेशितः । छत्रं धृतम् । तदने देवाङ्गना ननृतुः । प्रधानपुरुषा जहषुः । स्वजनास्तुतुषुः । पित्रादयस्तु पुपुषुः। प्रियङ्करनृपस्य देवतादत्तं राज्यं श्रुत्वा वैरिभूपा अपि प्राभृतकं वितेनुः । प्रजास्तस्य पुण्यप्रशंसां चक्रुः । देवा देव्यश्च स्वस्थानं जग्मुः ॥ ततः सप्तमे दिने अशोकचन्द्रस्य मरणं जातम् । प्रियङ्करराज्ञा स्वपितृसमानस्य राज्ञो मृतकार्याणि कारितानि । तत्पुत्राणां ग्रामग्रासादि विभज्य किञ्चिदर्पितम्। सर्वेषां ग्रामग्रासादिचिन्तनकार्याय अधिकारिणो नव्याः स्थापिताः । ततो देशाः साधिताः । श्रीप्रियङ्करनृपस्योपसर्गहरस्तवगुणनादेवेहलोके सर्वाभीष्टकार्यसिद्धयोऽभूवन् । भाण्डागारे धनकोव्यो जाताः । यतः " उपसर्गहरस्तोत्र-गुणनात् कार्यसिद्धयः । भवन्ति भविनां पुंसां, मित्रीयन्ते च शत्रवः ॥२३०॥" १'अमे' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy