________________
प्रियङ्करनृपकथा ।
७७.
तथाच"सुकृतं धनस्य बीजं व्यवसायः सलिलमथ प्रतिनीति ।
फलेमुपनीय नराणां परिपाकमुपैति कालेन ॥ २३१ ॥" प्रियङ्करराजा अनेकदानपुण्यानि करोति कारयति (च)। लोका अपि दानादिधर्मपरा जाताः। यतः"राज्ञि धर्मिणि धर्मिष्ठाः, पापे पापाः समे समाः।
राजानर्मनुकुर्वन्ति, यथा राजा तथा प्रजाः ॥ २३२ ॥" तदनु धनदत्तपुत्री श्रीमतीनाम्नी दाक्षिण्यक्षमाविनयविवेकालङ्कृता पट्टराज्ञी कृता। कियताऽपि कालेन तस्याः पुत्रो जातः । वर्धापनं कारितम् । दानं दत्तम् । यतः
" सुभोजनं दिने सारं, सुभार्या सारयौवनम् ।
सत्पुत्रेण कुलं सारं, तत्सारं यच्च दीयते ॥ २३३ ॥" क्रमेण वर्धमानस्य सोत्सवं जयङ्कर इति नाम पुत्रस्य दत्तम् । पञ्चमे मासे तस्य दन्तः प्रादुरभूत् । शास्त्रज्ञाः पृष्टा राज्ञा । तैरुक्तम्
"प्रथमे मासि सात-दन्तो हन्ति कुलं ततः। द्वितीये जातदन्तस्तु, स्वतातं विनिहन्ति सः ॥२३४॥ तूंतीयके पुनर्मासे, पितरं वा पितामहम् ।
तुर्यमासे च जातेषु, भ्रातृनेव विनाशयेत् ॥ २३५ ॥ १ 'मुपचयं' इति ङ-पाठः। २ ‘मनुवर्तन्ते' इति ङ-पाठः। ३ वर्धयमानस्य पुत्रस्य ' इति ङ-पाठः। ४ 'नाम दत्तम् ' इति ङ-पाठः । ५ सजातो दन्तो' इति हु-पाठः। ६ 'तार्तीयके' इति ड-पाठः । ७ ' तेषु भ्रातृन् ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org