SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता हस्त्यश्वकरभान् पुत्रान्, पञ्चमे पुनरानयेत् । मासे करोति षष्ठे तु, सन्तापं कलहं कुले ।। २३६ ॥ नाशयेत् सप्तमे मासे, धनधान्यगवादिकम् । यस्य दन्तयुतं जन्म, तस्य राज्यं विनिर्दिशेत् ॥ २३७॥" तदाकर्ण्य हृष्ट राजा राजकार्य करोति । अस्मिन्नवसरे राज्ञो द्वितीयहृदयमिव सर्वकार्यधुरन्धरो हितङ्करमन्त्रीश्वरः शूलरोगेण विपन्नः । मन्त्रिणं विना राज्यं न शोभते । यतः ७८ " मूलविस अहिविसूइयापाणियसत्यग्गिसंभमेहिं च । देहतर संकमणं करेह जीवो मुहुत्तेणं ॥ २३८ ॥ मुंहता विणु राजह किस्युं, रखवाल विणु पोलि । पति पाखे नारी किसी, पहिरणु विण किसी मोलि ? ॥ - रावणस्य गतं राज्यं, प्रधानपुरुषं विना । श्रीरामेण निजं राज्यं प्राप्तं लक्ष्मणबुद्धितः ॥२३९॥" ततः श्रीप्रियङ्करेण मन्त्रिपुत्रमाकार्य ततो बुद्धिपरीक्षार्थ काव्यमेकं पृष्टम् । यथा १ छाया शूल-विषा हि विसूचिका-पानीय- शस्त्रा-मि-सम्भ्रमैश्च । देहान्तरसङ्क्रमणं करोति जीवो मुहूर्तेन ॥ २ तात्पर्यम् - मन्त्रिणा विना राज्यं कीदृशं रक्षपालं विना रथ्या । पतिं विना नारी कीदृशी परिधानं विना कीदृशः मौलिः ॥ ३ 'राज ज ' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy