________________
६४
श्रीजिनसूरमुनिवर्यविरचिता
इति स्तुत्वा खगृहे समागच्छन् प्रियङ्करो निम्बस्थकाकरतं श्रुतवान् । तच्छब्देन ज्ञातम्-काको मां ब्रूते, यथा
"निम्बवृक्षतलेऽत्रास्ति, लक्षद्रव्यं करैत्रिभिः । नरोत्तम! गृहाण त्वं, भक्ष्यं मम समर्पय ॥ १९८ ॥" तेन काकोपविष्टशाखाऽधस्ताद् भूमिः खानिता । लोकाः पृच्छन्ति-किमर्थ खानयसि । तेनोक्तम्-गृहपूरणाय इति सत्यमुक्त्वा तद् द्रव्यं गृहे समानीतम् । काकाय दधिकूरकरम्बो दत्तः । व्यवहारिवर्गेषु स विख्यातोऽभूत् । ततो राजा प्रियङ्करगुणोत्कर्ष श्रत्वा हृष्टस्तमाकार्योक्तवान्-वारद्वयं त्वया सभायामागन्तव्यम् । राज्ञो मानं च जातम् । स प्राकृतपुण्यमहिमा । यतः
" नरपतिबहुमानं भोजनं च प्रधान
भवति धनर्ममानं शुद्धपात्रेषु दानम् । हयगजनरयानं भावतो गीतगानं
शमिह सुरसमानं पूर्वपुण्यप्रमाणम् ॥ १९९ ॥" प्रियङ्करस्य सर्वोऽपि मानं दत्ते । यतः__ " राजमान्यं धनाढ्यं च, विद्यावन्तं तपस्विनम् ।
रणे शूरं च दातारं, कनिष्ठो ज्येष्ठ उच्यते ॥२०॥" ततः कियदिनैररिशूर-रणशूराख्यौ राज्याहौं पुत्रावकस्माद् विपन्नौ । राज्ञो महद् दुःखं जातम् । कस्यापि किमपि चिन्तित न स्यात् । यतः
'खनसि' इति ङ- पाठः। २ 'मगण्यं' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org