________________
प्रियङ्करनृपकथा ।
" परनिन्दा महापापं न भूतं न भविष्यति । आत्मनिन्दासमं पुण्यं न भूतं न भविष्यति ॥ १९२ ॥ जो पव्त्रयं सिरिसा भित्तुमिच्छे सुतं व सीहं पडिबोहइज्जा । जो वाद सत्तिअग्गे पहारं
एसोवमाssसायणया गुरूणं ॥ १९३ ॥” चतुर्थी प्रिया यशोमती जाता । प्रियङ्करः प्रासादे प्रत्यहं पूजां करोति ।
एकदा तत्र श्रीपार्श्वनाथपूजां कृत्वा चैत्यवन्दनामकरोत् । नमस्कारा उदारा भणिताः । यतः -
६३
44
कल्याणपादपवनं प्रभावभवनं रजः शमनम् । स्तौमि दयोद्धृतभुवनं पार्श्वजिनं सुरकृतस्तवनम् ॥ १९४ ॥ उपसर्गहरस्तवनं वनेऽपि ते स्मृतिपथं नयन्ति यके । अरिकेस रिकरिशङ्का न स्यात् तेषां सुपुण्यवताम् ॥ १९५ ॥ सश्रीकं वसुधाधारं, प्रभूत विषयापहम् । प्रगुणश्री रुचि वन्दे, मध्याक्षरगुरुस्तवम् ।। १९६ ॥ जय जय पार्श्व ! जिनेश्वर ! नेश्वर इह कोऽपि तव गुणान् वक्तुम् । नाम सुरमणिसमं रमणीयं श्रीदपदकमलम् ॥
१९७ ॥
"
१ छाया
यः पर्वतं शिरसा भेत्तुमिच्छेत्, सुप्तं वा सिंह प्रतिबोधयेत । यो वा देयात् शक्त्य प्रहारमेषोपमाऽऽशातनायाः गुरूणाम् ॥ २ ' स्तुतम् ' इति ङ-पाठः । ३ ' कमल !' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org