________________
श्रीजिनसूरमुनिवर्यविरचिता
"क्षामत्व-लक्ष्मलक्ष्येण, गोस्तनी-रजनीशयोः ।
सारं विरञ्चिना हृत्वा, कृताः सन्तो जयन्तु ते ॥१९०॥" __ इत्याशिषं दत्त्वा वक्ति-सन्तुष्टोऽस्मि, वरं वृणु । ततस्तेन चरो मार्गितः-मन्त्रिपुत्रीं मुश्च, सज्जीकुरु । तद्वचनात् तेन मुक्ता, सज्जीकृता। यक्ष आह-परं मनिन्दया एषा बालिका बहुपुत्रपुत्रिका भूयात् । इत्युक्त्वा कुमारस्य सर्वपक्षिणां भाषाज्ञातृत्ववरं दत्त्वा यक्षः स्वस्थानं गतः । ततो मन्त्रिणा चिन्तितम्-प्रियङ्करेग महानुपकारः कृतः, तेनास्मै एषा कन्या दीयते । ततो मन्त्रिणा यशोमत्या सह प्रियङ्करस्य स्वगुणकीतं पाणिग्रहणं कारितम् । धन-धान्य-रत्नादिदानं हस्तमोचने कृतम् । सर्वेषां प्रमोदः सम्पन्नः । स च सप्रियः स्वसदने प्राप्तश्चिन्तयति । एष स्तवमहिमा यद् यक्षः प्रत्यक्षो जातः । उक्तं च- .
" उपसर्गहरस्तवनं, यचित्ते पोस्फुरीति सततमिह । भूतव्यन्तरयक्षाः, प्रत्यक्षाः स्युनृणां तेषाम् ॥ १९१॥"
स यशोमत्या सह भोगान् भुते । क्रमेण तस्या यक्षकथनात् तथैव जातम् । सा वर्षे वर्षे पुत्रपुत्रीयुग्मं प्रास्त । द्वादशभिवः १२ पुत्राः १२ पुन्यः अस्या जाताः । तेषां पुच्यादीनां च लालन-पालन-रक्षण-स्तन्यपान-भोजनदानचिन्ताकरणादिना खेदं प्राता । तेषां परस्परकलहकरणाद् अविनीतत्वाच्चोद्विग्ना सुखं न शेते, सुखं न भुङ्क्ते । ततः चित्ते चिन्तितवती-या वन्ध्या: स्त्रियो भवन्ति तासां जीवितसंयोगसुखभोजनशयनादि श्लाघ्यम्। कुर्कुटीवन्मया किं कर्म कृतम् । तन कस्यापि निन्दा न कार्या, विशेषतो देवतागुरूणाम् । यतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org