________________
प्रियङ्करनृपकथा ।
६१
यक्षोऽस्मि । कुमार आह-तर्हि अनया तव किं विनाशितम् ? स आह-एषा सखीयुता मद्भवने समागता, मत्प्रतिमां दृष्ट्वा हसिता। अहं सत्यवादी यक्षोलोकानामाशापूरकः।लोको मां पूजयति । एषा वक्ति-अयं देवो न स्यात् । पाषाणो मण्डितोऽस्ति इति वक्त्रं वक्रीकृत्य निर्गता। ततो मया निगृहीता । कुमार ऊचे। यतः"जैइ मंडलेण भसियं हात्थं दहण रायमग्गंमि । ता किं गयस्स जुत्तं सुणहेण समं कलिं काउं? ॥१८७॥ यद्यपि मृगपतिपुरतो विरसं रेसतीह मत्तगोमायुः। तदपि न कुप्यति सिंहो विसदृशपुरुषेषुकः कोपः॥१८८॥" तेन तक कोपोऽपि न विलोक्यते, विसदृशत्वात् । यतः
" यदि काको गजेन्द्रस्य, विष्ठां कुर्वीत मूर्धनि । कुलानुरूपं तत् तस्य, यो गजो गज एव सः ॥ १८९॥" इत्यादिकर्मधुरमधुरैर्वचनैः कुमारेणोपशान्तकोपः कृतः। ततः स आह-तवोपसर्गहरस्तवर्गुणनेन तच्छरीरे स्थातुं न शक्नोमि । तेन मया तव सत्पुरुषत्वं परीक्षितम् । यतः
१ 'अपकृत्य निर्गता' इति ङ-पाठः । २ छाया
यदि मण्डलेन भषितं हस्तिनं दृष्ट्वा राजमार्गे। तस्मात् किं गजस्य युक्तं श्वानेन समं कलिं कर्तुम् ? ॥ ३ 'हाथी हालें हेक, लख (ष ) कूतर गलीए लवें।
वडपण तणे विवेक, कदे न खी(षा)जे किसनीया ॥' इत्यधिको ङ-पाठः । ४ 'सिंहस्य पुरतो' इति ढ-पाठः। ५ 'सरतीह मातङ्गः' इति क-पाठः । ६ करोति' इति ङ-पाठः । ७ 'सत्कृतः' इति ङ-पाठः। ८ 'गुणितेन' इति ह-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org