SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ६० श्रीजिनसूरमुनिवर्य विरचिता " दोषाकरोऽपि कुटिलोsपि कलङ्कितोऽपि मित्रावसानसमये विहितोदयोऽपि । चन्द्रस्तथापि हरवल्लभतां प्रयाति नाश्रितेषु महतां गुणदोषचिन्ता ॥ १८२ ॥ अद्यापि नोज्झति हरः किल कालकूट कूर्मो बिभर्ति धरणीं किल चात्मपृष्ठे । अम्भोनिधिर्वहति दुःसहवाडवाग्नि मङ्गीकृतं सुकृतिनः परिपालयन्ति ॥ ९८३ ॥ " ततस्तेन प्रियङ्करेण पृष्टम् - अस्या अज्ञाया अबलाया उपरि तव किं वैरं वर्तते येन त्वं पीडयसि विद्याबलेन एनामुपक्षयसि १ यतः " तृणोपरि कुठारः किं, मृगे सिंहपराक्रमः । कमलोत्पाटने हस्ती, कटकं की टिकोपरि १ ॥ १८४ ॥ - , द्विज आह- अस्या जिह्वाया गुणेन । उक्तं च" यस्य जिह्वागुणो नास्ति, तस्य वैरं जगत्त्रये । जिह्वायाममृतं यस्य तस्यात्मीयं जगत्त्रयम् ॥ १८५ ॥ जिह्वाग्रे वसते विद्या, जिह्वाग्रे मित्रबान्धवाः । जिह्वाग्रे बन्धनं मोक्षः, जिह्वाग्रे परमं पदम् ॥ १८६॥" कुमार आह- अनया वार्तया ज्ञायते -त्वं द्विजो नासि, कोऽप्यपरो देवो वा दानवो वा वर्तसे । ततो द्विजरूपं मुक्त्वा देवो जातः । गजोऽपि न दृश्यते । राजवाटिकायां मम देवकुलमस्ति, तत्राहं १' न स्यात्' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy