SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । ५९. साहसं मा कुरु । चेन्मत्कथितं करोषि तदा स्त्रियं न मार्गयिष्यामि । कुमारो हृष्टः प्राह-यत् किञ्चित् कथयिष्यसि तत् सव करिष्यामि । साँक्षिणः के ? । तेनोक्तम् - पञ्च । तस्मात् त्वं वद । गृहं त्यक्त्वा देशान्तरं यामि उत द्वादश वर्षाणि वने तिष्ठामि १ किमु पृथिव्यां भ्रमामि अथवा यावज्जीवं तव दासो भवामि ? । द्विजः प्राह - अलं विस्तरेण । त्वया सर्व कथितमस्ति तत् सर्वं कार्य कुरु । तत्रापि धूर्तेन वाचा छलितः, यदा कर्म न स्यात् तदा प्राध्वरं वक्रं स्यात् । स कुमारो विप्रपादयोर्लग्नः । ततस्तेनोक्तम् - विमृश्य प्रोच्यते । अविमृश्य कथितं प्रत्युतानर्थाय स्यात् । कुमारेण सत्यं मानितम् । अथ ममैकमेव कार्यं कुरु - यदि मन्त्रिपुत्र्याः प्रतीकारोपायं न करिष्यसि । - नँदा स्त्रियं न मार्गयिष्यामि । तदाकर्ण्य कुमारः प्राह-प्रतिज्ञातं न मुञ्चामि । द्विज आह- अस्या निर्गुणायाः कटुकजिह्वाया आदरः सतां न युक्तः । कुमारः प्राह- सद्भिर्यद् वचनमुक्तं तदुक्तमेव हस्तिदन्तवत् यतः - 44 गुरुआ न गणंति गुणे पडिवन्नं निग्गुणं पि पालंति । अहला सहला वितरू गिरिणा सीसेण वुञ्झति ।। १८१ ।। " - १ ' चेद्यत्कथितं ' इति ङ-पाठः । २ ' कथयसि तत् सर्वं करोमि इति क- पाठः ३ ' एते साक्षिणः । कुमारेण प्रोक्तम् गृहं इति ङ-पाठः । ४ ' अ (वि) मृष्टकथितं ' इति ङ-पाठः । ५ ' तदाकर्ण्योपचारं न करिष्यामि इति विप्रेणोक्तम्' - इति ङ-पाठः । ६ छाया- गुरवो न गणयन्ति गुणान् प्रतिपन्नं निर्गुणमपि पालयन्ति । अफलाः सफला अपि तरवो गिरिणा शीर्षेणोद्यन्ते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy