SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता किं दैवविलसितं ? किं दुष्टजनविलसितं । किं कर्मविलसितं ? किंकर्तव्यतामूढाः सर्वे जाताः । कुमारः प्राह द्विजम् - स्वत्स्त्रियमहं जानामि अपलपामि वा तदा शपथान् करोमि । यथा ५८ 66 जीवहिंसाकृतो येऽत्र, वर्तन्ते कूटभाषिणः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७४ ॥ धर्मनिन्दी पतिभेदी, निद्राच्छेदी कलेः करः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥१७५॥ परकीयं धनं येऽत्र, मुष्णन्ति पुरुषाधमाः । तत्पापं मेsस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७६ ॥ कृतघ्न्ना ये च विश्वास घातकाः पारदारिकाः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७७॥ स्वस्त्रियं ये परित्यज्या - न्यत्र कुर्वन्ति ये रतिम् । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७८ ॥ कलत्रद्वितये स्नेह - विभागं येऽत्र कुर्वते । तत्पापं मेsस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १७९ ॥ कूटसाक्षी परद्रोही, पितृद्वेषी कुबुद्धिदः । तत्पापं मेऽस्तु चेत् त्वत्स्त्री, मयाऽपलपिता भवेत् ॥ १८० ॥" द्विजः प्राह क्रूरकर्मणः शपथान् न मन्ये । कुमारो वक्तितर्हि सर्व धनं गृहाण | विप्र आह- अपरं किमपि न गृह्णामि । मदीयं वस्तु समर्पय । कुमारो वक्ति - कूटकलङ्के सर्वथाऽहं प्राणांस्त्यक्ष्ये इत्युक्त्वा खड्डे हस्तं क्षिपति तावता विप्रेणोक्तम् १ 'सञ्जाताः' इति ङ-पाठः । २ अस्य पद्यस्य स्थानान्तरं ङ-पुस्तके | Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy