________________
प्रियङ्करनृपकथा ।
प्रसादः । मम शिरसि तव भारश्चंटापितः । कथमथ प्रत्युपकारं करिष्यामि ? अथवा तवैतत् पुण्यं भवतु । अथ मम पत्नीं समपेयेति श्रुत्वा वजाहत इव कुमार ऊंचे-त्वमेव प्राय गृहीत्वा गतः, पुनः किं मार्गयसि ?। सप्ताभिज्ञानानि त्वया पूरितानि । अथ किं झगटकं कुरुषे ? । ज्ञातं ज्ञातम्-द्विजा एवंविधा एव दाम्भिका धृतो भवन्ति । द्विजः प्राह—कुमार ! यथा तथा मा वद । दाम्भिका वणिज एव । यत:---
"त्रिदशा अपि वञ्च्यन्ते, दाम्भिकैः किं पुनर्नराः । देवी यक्षश्च वणिजा, लीलया वश्चितावुभौ ॥१७२।।" अत्र कथा ॥ अहमत्रागत एव नास्मि । अनार्थे शपथं करोमि । यदि लोभं करिष्यसि मस्त्रियमपलपिष्यसि तदा तव ब्रह्महत्यां दास्यामि । इत्याकये कुमारो भीतो विषण्णः श्यामवदनः समभूत् । हृदये दध्यौ-कोऽपि विद्यासिद्धो दुष्टो रूपपराचत कृत्वा स्त्रियं गृहीत्वा गतः । अथ किं करिष्यते । द्विजो वक्ति-स्त्रियं लात्वैव यास्यामीति निर्णयः कृतः। तस्यैकं लङ्घनं जातम् । स्वजना मिलिताः प्रोचुः-प्रियङ्करस्य महाविपर्यासो जातः । कदाचिद् वृद्धा अपि विपर्यस्यन्ति । उक्तं च
"रामो हेममृगं न वेत्ति नहुषो याने न्ययुत द्विजान् ___ 'विप्रस्यापि सवत्सधेनुहरणे जाता मतिश्चार्जुने । ___ छूते भ्रातृचतुष्टयं च महिषीं धर्मात्मजो दत्तवान्
प्रायःसत्पुरुषो विनाशसमये बुद्धया परिभ्रश्यते॥१७३॥" १'वटितः' इति ड-पाठः। २ 'प्रोचे' इति ड-पाठः । ३ चित्ते' इति ङपाठः। ४ 'तस्यैकदिनं जातम्' इति ङ-पाठः। ५'वेति नहुषो याने युनक्ति द्विजान्' इति घ-पाठः। ६ 'विप्रीदेव' इति घ-पाठः।
प्राय.
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org