________________
श्रीजिनसूरमुनिवर्यविरचिता
" तव वर्मनि वर्ततां शिवं
पुनरस्तु त्वरितं समागमः। अयि साधय साधयेप्सितं
. स्मरणीयाः समये वयं वयः(?) ॥ १७०॥" यदा त्वमागमिष्यसि स्वयं तदैवार्पयिष्यामीति निश्चयः कृतः। दिनत्रये जाते तद्रूपः तद्वयास्तद्वणेस्तन्नामा तत्ककाराद्यभिज्ञानपुरस्कृतस्तद्वचनस्तादृग्लोचनस्तादृङ्मुखो विष: समायातः। कुमारेण वादितः सः-त्वं शीघ्रमेव कस्मादागतः ? तत्र कस्मान्न गतः ? स आह-स्वजनवारितः, शकुनाभावश्च जातः । समुद्रमध्ये प्राणगमनेन ब्रुडनभयेन (येन) च जीवितसंशयः स्यात, तेन धनेनोपार्जितेन किं फलम् ? । उक्तं च
" शत्रूगां प्रणिपातेन, धर्मस्यातिक्रमेण च ।
अतिक्लेशेन ये अर्था-स्ते अर्था मा भवन्तु मे ॥१७१॥" हे कुमार! परदुःखकातरत्वेन तत्र न गतः । अत्र युष्मादृशाः भाग्यवन्तः सन्ति, तदाधारेण स्थास्यामि । इत्युक्त्वा स्त्रियं गृहीत्वागतः। ततः कियद्भिर्मासैः स ब्राह्मणो निजप्रियामिलनोत्कः सप्तगजप्रमाणं महाकायं पर्वतप्रायं गजेन्द्रं 'सिंहल'द्वीपाल्लात्वा प्रियङ्करगृहे प्राध्वरः समागात् । कुमारस्याशिष दत्वोपविष्टः । अहो कुमार! परोपकारकर ! स्वत्प्रसादाद गजादिधनमुपायं क्षेमेणागतः । अद्यतनदिनाद् यज्जीच्यते स तव
१ 'दृग्लोलनयनः' इति ङ-पाठः । २ 'प्रियपातेन' इति क-पाठः। ३ 'वै इति ह-पाठः । ४ 'प्रध्वरः' इति ङ-पाठः, 'पाधरो' इति गूर्जरगिरायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org