SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । मण्डितोऽस्ति । तत्रोद्यापने सर्वेषां द्विजानां लक्षमूल्यं हस्तिनां दानं दास्यति तेन तत्र यास्यामि । यतः - "" किं किं न कयं को को न पत्थिओ कह कह न नामिअं सीसं । दुग्भरउअरस्स कए किं न कयं किं न कायव्वं १ ॥ १६९॥" तेन त्वत्पार्श्वे स्वप्रियामोचनायागतोऽस्मि । यावदहं मत्कार्यं कृत्वाऽत्रागच्छामि तावत् त्वं मत्प्रियां रूपलावण्यवती स्वगृहे स्थापय । जलानयन- रन्धन-दधिविलोडनादीनि कार्याणि कारयितव्यानि । भोजनं च देयम् । तादृग्विधस्वजनाभावादन्यत्र 'विश्वासानर्हत्वात्, उत्तमस्य तव पार्श्वे त्यक्त्वा मम गमनेन चिन्ता न स्यात् । कुमारः प्राह-अत्र स्वगोत्रीयान् स्वजातीयान् स्ववर्गीयान् भलाप्य (पयित्वा ?) कस्मान्न मुञ्चसे । द्विज आह-मम मनः कापि न मन्यते । उत्तमस्त्रिय उत्तमगृह एव स्थाप्याः, तेनेदमुक्तार्थं कुरु । कुमारः प्राह- मनो विनाऽपि तव बहुकथनेन परोपकाराय स्थाप्यमानाऽस्ति । कार्य कृत्वा शीघ्रमागच्छ । द्विजो हृष्टः पुनरूचे'काशी' वास्तव्यः १ 'कश्यप गोत्रः २ कामदेव पिता ३ कामलदेवीमाता ४ केशवनामाऽहं ५ करपत्रहस्तः ६ कषायकवस्त्रः ७ इति सप्तभिः ककारैर्योऽभिज्ञानानि पूरयति तस्यैषा स्त्री अर्पणीया इत्युक्त्वा द्विजश्चलितः । कुमारेणाशीर्वचनमुक्तम् । यतः - I ५५. १ छाया किं किं न कृतं कः को न प्रार्थितः कुत्र कुत्र न नामितं शीर्षम् । दुर्भरोदरस्य कृते किं न कृतं किं न कर्तव्यम् ? ॥ २ ' दुब्भरभरस्स कज्जे ' इति सुबोधिकायाम् । ३ ' विश्वासो नहि, तदुत्तमस्य ' इति ङ-पाठः । ४ 'मनुते' इति ङ-पाठ । ५ मत्कार्य' इति ङ-पाठः । “ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy