________________
५३
श्रीजिनसूरमुनिवर्यविरचिता
मन्त्रिणा भोगपुष्पादिकमानीय तस्मै समर्पितम् । ततः कु. मारोऽष्टमीचतुर्दशीषु श्रीपार्श्वनाथं पुष्पैः प्रपूज्य भोग विधाय पञ्चामृतहोमं कृत्वा सदोपसर्गहरस्तवं पञ्चशतीवारं गणयति । शनैः शनैः किञ्चिद्गुणो जायमानोऽस्ति ॥ __ अस्मिन्नवसरे कुमारस्य यज्जातं तच्छृणुत-प्रियङ्करगृहे तावता कोऽपि ब्राह्मणो निधनो मध्यमवया देशान्तरात् समागतः। आशीर्वचो देवोपविष्टः। प्रियङ्करः प्राह-अहो ब्राह्मण ! त्वं किमर्थमागतोऽसि । स प्राह-सत्पुरुष ! त्वत्सदृशं कार्य किमपि वर्तते । कुमार ऊचे-तहि त्वं कथय, यदि सेत्स्यति तदा करिष्यामि। द्विजः प्राह-प्रार्थनां तदा करोमि, प्रार्थनाभङ्ग यदि न करोषि । यतः"परपत्थणापवनं मा जणणि! जणसु एरिसं पुत्तं । मा उअरे वि धरिजसु पत्थणभंगो कओ जेण ॥१६७॥" पुनस्त्वं परोपकारी श्रुतः। सतां परोपकार एव सारः । यतः" क्षेत्रं रक्षति चश्चा सौधं लोलत्पटी(?) कणान् रक्षा। दन्तात्तं तृणं प्राणान् नरेण किं निरुपकारेण ? ॥१६८॥"
इत्यादि बहूत्वा द्विजेन स्वकार्य तस्याग्रे प्रोक्तम्-अहो उत्तम ! शृणु-'सिंहल द्वीपे सिंहलेश्वरो राजा। तेन यागो १ . ददौ उपविष्टः ' इति क-पाठः । २ छायापरप्रार्थनाप्रपन्नं मा जननि! जनय ईदृशं पुत्रम् ।
मा उदरेऽपि धर प्रार्थनाभङ्गः कृतो येन ॥ ३ 'लोलोत्पटी कणाद् रक्षेत्' इति ड-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org