________________
प्रियङ्करनृपकथा।
गुणो नाभूद् (यथा) दुर्जने सद्वाक्यतः। बहूनि मानितानि। बहून्यौपधानि कृतानि । बहवो वैद्यादयः पृष्टाः। परं केचिद रोगं वदन्ति, केचिद् भूतादिदोषं, केचिद् ग्रहादिपीडां च । उक्तं च"वैद्या वदन्ति कफपित्तमरुत्प्रकोपं
ज्योतिर्विदो ग्रहकृतं प्रवदन्ति दोषम् । भूतोपसर्गमथ मन्त्रविदो वदन्ति
कर्मेति शुद्धमतयो यतयो वदन्ति ॥ १६४॥" किं कुर्मो क्यम् ? विषमे सङ्कटे पतिताः स्मः । अष्टमीचतुदेश्यादौ विशेषेण शरीरे भारो भवति । किञ्चिन भुङ्क्ते । न जल्पति । भाषिताऽपि नोत्तरं दत्ते । अस्याः पाणिग्रहणमपि कोऽपि न करोति । तेन अहो प्रियङ्कर ! परकार्यकर! मे चिन्तां हर, कृपां कुरु । केनाप्युपायेन गुणः स्यात् तथा त्वं चिन्तय । यावद् धनं विलोक्यते तत् कथय, यथाऽपयामि । अस्थिरेण धनेन बहुमीलनेनापि किं प्रयोजनं यत्स्वाङ्गजाद्यर्थे न व्ययितम् । यतः___“दैवे गुरौ च धर्मे च, स्वजने स्वसुतादिषु ।
___ यद् धनं सफलं न स्यात्, तेन किं दुःखहेतुना ? ॥१६५॥" __कुमारः प्राह--अगुरुकर्पूरकस्तूरीप्रमुखं भोगं समानय यथा किश्चित् प्रतिकारं करोमि । अस्याः पुण्यं बलवत्तरं भविष्यति तदा मत्कृत उद्यमः सफलो भविष्यति । उक्तं च
“ उद्यमः प्राणिनां प्रायः, कृतोऽपि सफलस्तदा।
यदा प्राचीनपुण्यानि, सबलानि भवन्ति हि ॥ १६६॥" १" बहुनैवेद्यानि' इति ड-पाठः । २ 'यदङ्गजाद्यर्थे ' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org