________________
श्री जिनसूरमुनिवर्यविरचिता
इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात् तेषां युक्तमशङ्कितेन मनसा गेन्तुं गृहे सर्वदा ॥ १६०॥" अहो कुमार ! निष्कारणं तव परोपकारकत्वं श्रुतम् । यथा" परोपकाराय वहन्ति नद्यः
परोपकाराय फलन्ति वृक्षाः । परोपकाराय दुहन्ति गावः
५२
परोपकाराय सतां विभूतयः ॥ १६९ ॥ " " जलदो १ भास्करो २ वृक्षो ३, दातारो ४ धर्मदेशकाः ५ । एतेषामुपकाराणां नास्ति सीमा महीतले ।। १६२ ॥ " स्नेहोऽपि सहेतुकः स्यात् । उक्तं च
"प्रीतिर्जन्म निवास तो १ ऽप्युपकृतेः २ सम्बन्धतो ३ लिप्सया ४ विन्ध्ये हस्तिव१दम्बुजे मधुपवरच्चन्द्रे पयोराशित् ३ । अब्दे चातकवद् ४ भवेदसुमतां सर्वत्र नैमित्तिकी या निष्कारणवन्धुराऽस्ति शिखिवच्चान्दोद के सा पुनः॥ १६३॥”
तव निर्निमित्तकः स्नेहः सर्वोपरि वर्तते । तेन किमपि कार्य त्वत्सदृशं कथयामि । कुमारः प्राह-मंन्त्रिन् ! तव सेवकोऽस्मि, कार्य कथ्यताम् । ततो मन्त्रिणा स्वपुत्रीस्वरूपं निवेदितम् । यथाएकस्मिन् दिने मत्पुत्री सखीयुता वाटिकायां गताऽभूत् । तत्र कया शाकिन्या गृहीता, न ज्ञायते डाकिन्या वा भूतप्रेतदोषेण व्यन्तरदोषेण वा । वर्षमेकं साधिकं जातम् । उपचाराः कृताः,
१' गेहान गन्तुं सदा' इति ङ-पाठः | २' बन्धुरा शिखिवदम्भोदे कचित् दृश्यते ' इति ङ-पाठः । ३ ' मन्त्रतः ' इति क-पाठः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org