SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा | 'लितशीर्षो वचो वदति - अहं नन्दीश्वरे यात्रां कर्तुं गच्छामि, त्वमपि सार्थे समागच्छ यथा यात्रां कारयामि । कुमारो दध्यौ - देवानां पलितानि न स्युः, मानवानां तत्र गमने सान्निध्यं विना शक्तिर्न स्यात् । स एव दुष्टव्यन्तरः सम्भाव्यते । विशेषतो भोगं गुणनं त्वसकृत् कृतवान् । तेन स दृष्टव्यन्तरो विद्युद्योतत् पलायितः । ततो महेभ्यः पार्श्वस्तवगुणनपूर्वं सुखेनावासे तस्थौ । धनदत्तेन स्वकुटुम्बाग्रे प्रोक्तम् — प्रियङ्करस्य भाग्यं महदस्ति, अनेन महानुपकार आत्मनां कृतः, तेनास्मै श्रीमतीनाम्नी स्वपुत्री दीयते । स्वजनैरुक्तम् - इष्टं वैद्योपदिष्टं दुग्धं प्राग् मधुरं, पुनर्मध्ये क्षिप्तशर्करम् । ततो धनदतेन सहर्षचितेन प्रियङ्करः स्वपुत्र्याः पाणिग्रहं कारितः । विस्तरेण हयहारहीरकजटितमुद्रिकामुक्ताफलादीनि चीरादि च दत्तानि । स सकलत्रः स्वावासे वासं चकार । तृतीया महेभ्यपुत्री श्रीमती प्रिया जाता ॥ ततः कियद्भिर्दिनैर्व्यन्तरनिर्घाटनवार्ता हितङ्कराभिधानमन्त्रीश्वरेण श्रुता । यतः – प्रायः प्रच्छन्नकृतं पुण्य शतशौखतामेति । ततः प्रियङ्कर आकारितः स्वागतादिः पृष्टः । यत उक्तम् 44 एह्यागच्छ समाविशामनमिदं प्रीतोऽस्मि ते दर्शनात् का वार्ता पॅरिदुर्बलोऽसि च कथं कस्माचिरं दृश्यसे ? | १ 'लित शीर्षकूच वदति' इति ङ - पाठः । २ 'गुणनं च कृतवान्' इति घ- पाठः । " रहीरचीरादि दत्तम् ' इति क-पाठः । ६ ' स्वागतं च पृष्टं ' इति घ-पाठः । ३ ' स्तुत्वा नव्यावासे' इति ङ-पाठः । ४ ५ ' शाखान्तमतति ' इति क-पाठः । ७ ' किमु दुर्ब० ' इति ङ-पाठः । , ५१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy