________________
श्रीजिनसूरमुनिवर्यविरचिता
प्रियङ्करः प्राह-अत्रोपायकरणे दिनाष्टकं लगति । अधुना तु मम कार्यमस्ति । इभ्य आह-उत्तमाः स्वकार्य मुक्तवा परकार्य कुर्वन्ति । यतः"हंति परकज्जनिरया निकज्जपरंमुहा सया सुअणा। चंदो धवलेइ महिं न कलंक अत्तणो फुसइ ।। १५८ ॥" तथा च नैषधे ( स०५, श्लो० ८८)" याचमानजनमानसवृत्तेः
प्ररणाय बत जन्म न.यस्य । तेन भूमिरतिभारवतीयं
न द्रुमैने गिरिभिर्न समुद्रैः ॥१५९ ॥" ततस्तेन कुमारेण मानितम् चिन्ता न कार्या। ततश्चैत्राष्टाहिकायां कुमारो नव्यावासे श्रीपार्श्वनाथप्रतिमा मण्डयित्वा प्रदीप कृत्वा पुरतो भोगं कुर्वन् उपसर्गहरेस्तोत्रगुणनं प्रतिदिनं मौनेन पञ्चशतीवारं करोति । अष्टमे दिने व्यन्तरो बालकरूपेण ध्यानभङ्गाय समागतः कथयति-मां सीदन्तं रक्ष रक्ष, त्वं कृपावानसि । दशाङ्गुलीमुखे क्षिपति तथापि न जल्पति । पुनः स युवा जातः, वक्ति च-एनं बद्ध्वा समुद्रे क्षेपयामीत्युत्पतितः । स ध्यानान चचाल । ततः स एव वृद्धरूपो जातः शतसहस्रप्रमाणप
१ छाया
भवन्ति परकार्यनिरता निजकार्यपराङ्मुखाः सदा सुजनाः ।
चन्द्रो धवलयति महीं न कलङ्कमात्मनः मार्टि। २' मन्त्रयित्वा' इति ङ-पाठः । ३'भोग्यं' इति ङ-पाठः। ४ 'स्तवगु' णन ' इति ङ-पाठः । ५' एवंरूपो' इति क पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org