________________
श्रीजिनसूरमुनिवर्यविरचिता "मूर्खाधार्मिकपाखण्डि-तंतितस्तनुरोगिणाम् । क्रोधिनात्यजदृप्तानां, प्रतिवेश्मकतां त्यजेत् ॥ १५३ ॥ प्रथमान्त्यायामवर्जा, द्वित्रिप्रहरसम्भवा । छाया वृक्षध्वजादीनां, सा सदा दुःखदायिनी ॥ १५४॥" कियद्भिर्दिनैरावासो निष्पन्नः। विजयमुहूर्ते गृहमध्ये वामभागे श्रीदेवालयं संस्थाप्य देवपूजां विधाय श्रीससवात्सल्यदीनोद्धारादि कृत्वा च धनदत्तः सपरिवारः स्वनवीनावासे वासं चकार । दिनत्रयं जातम् । चतुर्थदिवसे रात्रौ धनदत्तो गृहमध्ये सुखेन सुप्तः। प्रातः प्रबुद्धः, आत्मानमङ्गणे पल्यके सुप्त पश्यति, आकाशं तारकैः पुष्पितं च दृष्टम् । धनदत्तो विस्मयं प्राप्तः। द्वितीयदिनेऽपि नमस्कारेष्टदेवस्मरणपूर्वकमपवरके कपाटद्वयं दत्त्वा स सुप्तः । प्रातस्तथैवात्मानं बहिदृष्ट्वा चिन्तातुरः सञ्जातः। तृतीयदिनेऽपि धूपोद्ग्राहं विधाय सुप्तः तथैव जातम् । भृशं मनसि खिन्नः। यः कोऽपि परोऽपि कुटुम्बमध्ये तत्र स्वपिति सोऽप्यङ्गणे प्रातदृश्यते । सर्वेऽपि भीताः। आवासमध्ये कोऽपि न स्वपिति । धनदत्तेन ज्ञातम्-एष आवासो दुष्टव्यन्तरेणाधिष्ठितो जातः। मन्त्रविदोऽनेके पृष्टाः सर्वेऽपि मन्त्रोपचारं यदा कुर्वन्ति तदा विशेषतो व्यन्तरः कुपित आवासमध्ये गैतानां मनुष्याणां शरीरं भनक्ति, पुरुषस्त्रीणां परस्परं वेषपरावर्त करोति । तदा धनदत्तेनाचिन्ति-लक्षधनव्ययः अस्मिन्नावासे कृतः, स
१ 'पतितानां च रोगिणाम्' इति ड-पाठः। २ 'प्रातिवेश्मिकता' इति ह-पाठः। ३ गतं मन्त्रिविटं भनक्ति' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org