________________
प्रियङ्करनृपकथा ।
४७
तच्छ्रुत्वा देवतावागपि सत्येति हृदि ज्ञात्वा पासदत्तश्रेष्ठी हृष्टः पण्डितं प्रत्याह-त्वदुक्तं सर्वं सत्यं, सर्वज्ञोक्तशास्त्रस्य
माण्यात् । पण्डित ऊचे-तेनैव कारणेन मया त्वत्पुत्राय पत्पुत्री दीयमानाऽस्ति । श्रेष्ठिना मानितम् । शुभलग्नं विलोक्य प्रेष्ठिना स्वपुत्रस्य पण्डितपुच्या सह महामहोत्सवेन पाणिग्रहणं कारितम् धनस्वर्णादि दत्त्वा हस्तमोचनादि कृत्वा स्वावासे सप्रियः प्राप्तः । जैनब्राह्मणपुत्री सोमवती द्वितीया प्रिया जाता ॥२॥
अन्यदा तद्गहासन्नः प्रातिवेश्मिको धनदतनामा व्यवहारी कोटिस्वामी वसति । दाने माने चातुर्योदार्ये प्रथमः। तस्य कीर्ति गुणांश्च सर्वेऽपि कथयन्ति । यतः"दानेन वर्धते कीर्ति-लक्ष्मीः पुण्येन वर्धते ।
विनयेन पुनर्वित्तं, गुणाः सर्वे विवेकतः ॥१५० ॥" तस्य धनश्रीर्भार्या । जिनदास-सोमदासनामानौ पुत्रौ । पुत्रिकाश्चतस्रः सन्ति । धनदत्तेन नव्यावासकरणाय मुहतों गृहीतः। प्रथमं शुभदिने भूमिशुद्धिं विधाय आवासः कारयितुमारब्धः वास्तूक्तयुक्त्या । यथा" दुःखं च देवतासन्ने, गृहहानिश्चतुष्पथे । धूर्तामात्यगृहाभ्यासे, स्यातां सुतधनक्षयौ ॥ १५१ ॥ लक्ष्मीनाशकरः क्षीरी, कण्टकी शत्रुभीप्रदः । अपत्यन्तः फैली तस्मा-देषां काष्ठमपि त्यजेत् ॥१५२॥"
१ 'करः क्षीरवृक्षः' इति ङ-पाठः।
२ ‘फलं' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org