SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिता वस्त्रालङ्कृत (ति) मद्यमांसकुसुम स्वर्णादिसद्धातवो गोमीना दधिदर्पणानि विमलाः श्रेष्ठाः कृता दक्षिणे १४५ " तदाकर्ण्य कुमारः प्रमुदितः । शकुनग्रन्थि बद्ध्वा तत्सार्धं तद्गृहे गतः । ततो बहुमानं दत्त्वा पण्डितः स्वपुत्रीं सोमवतीमस्मै दत्तचान् । कुमारः प्राह-अहं न जाने तद्वार्तामपि । मत्पितैव जानाति । स्वप्नस्वरूपपृच्छयां कन्याप्रदानं ते किम् १ | अन्यत् पृच्छयते अन्यदुत्तरदानं लवणं मार्गतः कर्पूरार्पणमिव, घृतमार्गणे पट्टकूलकर्षणमिव त्वं कुर्वाणोऽसि । पण्डितः प्रोवाच-त्वं स्वगृहे गच्छ । स्वत्पितुरग्रे कथयिष्यामि । अपकाग्रे वार्ता न कथ्यते येन तद् हृदये न तिष्ठति । ततः स स्वगृहे गतः पितुरग्रे स्वरूपं कथयामास । तत्पिता तत्र गत्वा पण्डितं प्रत्यूचे । स्वप्न विचारस्वरूपं कस्मान्नोक्तम् १ पण्डित ऊचे - अनेन स्वप्नेन ज्ञायते - अस्य नगरस्य ( एप) राजा भविष्यति । यत उक्तं स्वप्नशास्त्रे“अन्त्रैश्च वेष्टयेद् यस्तु, ग्रामं नगरमेव वा । स ग्रामे नगरे देशे, मण्डले पार्थिवो भवेत् ॥ १४६ ॥ आसने शयने याने, शरीरे वाहने गृहे । दह्यमाने विबुध्येत, तस्य श्रीः सर्वतोमुखी ॥ १४७ ॥ समधातोः प्रशान्तस्य, धार्मिकस्यातिनीरुजः । शान्तपुंसो जिताक्षस्य, स्वप्नौ सत्यौ शुभाशुभौ ॥१४८॥ रात्रेश्वतुर्थयामे तु दृष्टः स्वप्नः फलप्रदः । मासैर्द्वादशभिः षड्भि-स्त्रिभिरेकेन च क्रमात् ॥ १४९ ॥” ४६ १ ' मन्मानवा' इति ङ - पाठः | २' दुकूलकर्षमिव ' इति क - पाठः । ३ ' तुर्षु यामेषु' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy