SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ प्रियङ्करनृपकथा । ४५. 1 दायकम् । पुनः पुनः पप्रच्छ तस्य । ततः कुमारं समाकार्य स्वगृहे याति तावदध्वनि स्त्रीवृन्दं अक्षतभृतं नालिकेरयुतं स्थालं स्वहस्ते गृहीत्वा संमुखं समागच्छन्तं ददर्श । पण्डितो दध्यौ - वर्धापनं संमुखं मिलितम् । ततश्च नरशीर्षे पट्टो मिलितः, एषोऽपि राज्यदः । उक्तं च " प्रवेशे निर्गमे वापि, पट्टो भवति संमुखः । तस्य राज्यं समादेश्यं, शकुनज्ञेन निश्चितम् ॥१४३॥" अग्रे मद्यपूर्णः करको नगरमध्ये गेच्छतोस्तयोर्मिलितः । तदा पण्डितेनोक्तम् - कुमार ! शकुनाः प्रधाना जायमानाः सन्ति । तेनोक्तम्- कथम् ? । पण्डित आह- पूर्वं वर्धापनम्, ततः पट्टः, , ततश्चैव करकः । कुमारेणोक्तम्- अस्मिन् करके किमस्ति । स आह-मदः १ प्रमादः २ कलहश्च ३ निद्रा ४ द्रव्यक्षयो ५ जीवितनाशनं ६ च । स्वर्गस्य हानिः ७ नरकस्य पन्था ८ अष्टावनर्थाः करके वसन्ति ॥ १४४ ॥” कुमार ऊचे - हे पण्डित ! यत्रानर्थास्तत्र प्रवराः शकुनाः कथम् ? पण्डित आह— एवंविधं किं स्यात् ? तेनोक्तम् - मद्यम्, तर्हि एष मद्यभृतः करको विद्यते स च शास्त्रज्ञैर्महाशकुनत्वेन प्रतिष्ठितः । यतः - " कन्यासाधुमहीशमित्रमहिषी दूर्वादिवर्धापनं वीणामृन्मणिचामराक्षतफलं छत्राब्जदीपध्वजाः । १ ' गच्छतां तेषां मिलितः ' इति क-पाठः । २ ' मृण्मणि ' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy