SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्री जिनसूरमुनिवर्यविरचिता यावज्जलेनोपशमति तावज्जागरितः । इत्येतस्य स्वप्नस्य कीदृशं फलं भविष्यति १ । पासदत्तः प्राह - त्रिविक्रमोपाध्यायपार्श्वे गत्वा पृच्छ । अन्यस्य कस्याप्यग्रे न वाच्यम् । स शास्त्रज्ञो वर्तते । यतः ४४ " पात्रे त्यागी गुणे रागी, भोगी परिजनैः सह । शास्त्रे बोद्धा रणे योद्धा, पुरुषः पञ्चलक्षणः ॥ १४० ॥" ततः प्रियङ्करकुमार उपाध्यायगृहे गतः । तत्पुत्रद्वयं शास्त्राध्यायिनं तत्र दृष्टम् । तत्पार्श्वे पृष्टम् - उपाध्यायः कास्ति १ । वृद्धपुत्रेणोक्तम् 'मृतका यत्र जीवन्ति, न जीवा उच्छृंसन्ति च । स्वगोत्रकलहो यत्र तद्गुहेऽस्ति द्विजोत्तमः ॥ १४१ ॥” ततः प्रियङ्करः स्वबुद्धया लोहकारगृहं ज्ञात्वा गतः । अत्राप्युक्तं करपत्रकं सज्जं कारयित्वा अधुनैव स्वगृहे गतः । ततः पश्चादागतो लघुपुत्रं पृष्टवान् । तेनोक्तम् "जडानां सङ्गतिर्यत्र, 'प्रीतिश्च जडजैः सह । उपकारि वनाधारं, मत्पिता तत्र विद्यते ॥ १४२ ॥" कुमारस्तयोर्वैदग्ध्यं ज्ञात्वा चमत्कृतः । किं सरोवरे गतोऽस्ति ? इति तदुक्तं श्रुत्वा तत्पुत्रावपि चमत्कृतौ । कुमारः सरसि गतः । उपाध्यायो मिलितः । प्रणामपूर्वकमेकान्ते तस्मै स्वस्वनं कथयामास । स्वप्नं श्रुत्वा हृदये घूर्णित इव तस्थौ । इदं स्वप्नं राज्य " पञ्चगुणः स्मृतः ' इति ङ-पाठः । क-पाटः । Jain Education International २ ' प्रीतिश्चैव जडैः सह 1 For Private & Personal Use Only इति www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy