________________
प्रियङ्करनृपकथा । अन्यदा प्रियङ्करः श्रीदेवगुरुस्मरणनमस्कारोपसर्गहरगुणनादि विशेषध्यानं कृत्वा सुप्तः । तदा रात्रौ निशीथात् परतो महाश्चर्यकारकं स्वप्नं स लब्धवान् । जागरितो नमस्कारानेव गुणयति । यत:"जिंणसासणस्स सारो, चउदसपुयाण जो समुद्धारो ।
जस्स मणे नवकारो, संसारो तस्स किं कुणइ १ ॥ १३७ ॥ एसो मंगलनिलओ. दहविलओ सयलसंतिजणओ य । नवकारपरममंतो चिंतिअमित्तो सुहं देइ ॥१३८ ॥
प्राग वृद्धमुखात् श्रुतम्-स्वप्नं प्रेक्ष्य निद्रा न कार्या। उक्तं च विवेकविलासे (स० १, श्लो० १४)
"सुस्वप्नं प्रेक्ष्य न स्वप्यं, कथ्यमनि च सद्गुरोः ।
दुःस्वप्नं पुनरालोक्य, कार्यः प्रोक्तविपर्ययः ॥१३९ ॥" प्रातः स्वपितुरग्रे स्वप्नोपालामस्वरूपं प्रोवाच-यथा, मया स्वशरीरादन्त्रजालं कृष्ट्वा पृथक् पृथक् कृतैः स्वैरन्त्रैरशोक'नगरं शनैः शनैर्वेष्टितम् । ततश्च स्वशरीरं वैश्वानरे जाज्वल्यमानं दृष्ट्य
१ छाया--
जिनशासनस्य सारः चतुर्दशपूर्वाणां यः समुद्धारः । यस्य मनसि नमस्कारः संसारस्तस्य किं करोति ? ॥ एष मङ्गलनिलयो दुःखविलयः सकलशान्तिजनकश्च ।
नमस्कारपरममन्त्रः चिन्तितमात्रं सुखं ददाति । २ “नमस्कारसमो मन्त्रः, शत्रुञ्जयसमो गिरिः।
गजेन्द्रपदजं नीरं, निर्द्वन्द्वं जगतीतले ॥” इत्यधिको घ-पाठः। ३ 'स्वप्नं प्रेक्ष्य न तु स्वप्यात् ' इति क-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org