________________
श्रीजिनसूरमुनिवर्यविरचिता
द्वितीय दिने समाधिसम्पन्नो राजा सभायामुपविष्टो वक्तिसिद्धवचनं सत्यं जातम् । ततो मन्त्रीश्वरस्वकुटुम्बस्वजनादीनाकार्य राजा विचारं करोति - एष कुमार आत्मभाग्यं न जानाति । एतस्य राज्यमवश्यं भविष्यति । तेन मत्पुत्री वसुमती नाम्नी अस्मै दीयते, यदि कुटुम्बस्य चित्ते आयाति । पश्चादेष आत्मनः सुखकारी स्यात्, आत्मसन्तानिनोऽपि सुखिनः स्युः । ततः सर्वैरप्युक्तम्- युक्तियुक्तमिदं वचनम् । ततः पल्लीशेन शुभवेलायां स्वकन्यारत्नस्य अनिच्छतोऽपि पाणिग्रहणं कारितम् । धनतुरङ्गमवस्त्रादि 'दत्तम् । आवासे स्थितः प्रियासहित श्चिन्तयति - एष सर्वोऽपि स्तवमहिमा । यतः -
४२
" सम्पदो विपद : स्थाने, पाणिग्रहश्च खो ( पो) डके । अपमानपदे मानं सर्वं पुण्यफलं त्विदम् ॥ १३५ ।। " ततः प्रियङ्करः सपत्नीको वैरिभयाद् रात्रौ स्वसेवकैः सह श्री 'अशोक' पुरे पञ्चम्यां राज्ञा प्रापितः । पित्रोः प्रणामं कृतवान् कुमारः सवधूकः । पितरौ दृष्टौ । देववचः सत्यमभूत् । कुमारस्य वसुमती प्रथमा प्रिया जाता ॥ १ ॥
कुमारः प्रियङ्करः सर्वव्यवसायचतुरः कुटुम्बभारं निर्वाहयामास । पिता तु पुण्यान्येत्र करोति, विनीतपुत्रप्रसादात् ।
यतः
" ते पुत्रा ये पितुर्भक्ताः, स पिता यस्तु पोषकः ।
तन्मित्रं यत्र विश्वासः, सा भार्या यत्र निर्वृतिः ॥१३६॥
:
१' खोडकेऽत्र विवाहकः' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org