________________
प्रियङ्करनृपकथा ।
धावनं कृतवान् । ततः स्नानं कृतम् । तावता अकस्मात् शिरोऽतिर्जाता । आन्धसिकः प्रार्थयति-राजन् ! भोजनाय प्रागुत्सुरो जातोऽस्ति । पादौ अवधार्यताम् । राजा प्राह-भोजनं क्षणान्तरे करिष्यामि । मम शिरो दुःख्यमानमस्ति । पुनर्मुखेऽपि तेनाकस्मात् कलमलो जातः सनत्कुमारचक्रवर्तिवत् । उक्तं च"थोवेण वि सप्पुरिसा सणकुमारुव्व केइ बुझंति ।
देहे खणपरिहाणि जं किर देवेहिं से कहियं ॥ १३१॥" पल्यङ्के ततः सुप्तः । निद्रा समागता । सन्ध्यायामुत्थितः । तथापि तादृग् वपुःपाटवं नास्ति । मन्त्री तदाकर्ण्य तत्रागतो वक्ति-सर्वथा लड्यनं न कार्यम् । यतः" ज्वरेऽपि लङ्घनं नैव, कर्तव्यं युक्तिलचनम् ।
ये गुणा लङ्घने प्रोक्ता-स्ते गुणा लघुभोजने ॥ १३२॥" तेन मुद्गपानीयं ग्राह्यम् । यतः"त्रिदोषशमनं हृद्यं, रेचकं गात्रशोधकम् ।
शुष्कं च नीरसं तिक्तं, मुद्वारि ज्वरापहम् ॥ १३३॥" ततो राज्ञा रुचिं विनापि मुद्गपानीयं भेषजपानीयं च गृहीतम् । वैद्येनोपरि शिरोऽतिपित्तशमनी एला समर्पिता। यतः"एला तिक्तोष्णलध्वी स्यात्, कफवायुविषप्रणुत् । बस्तिकण्डुरुजो हन्ति, मुखमस्तकशोधिनी ॥ १३४॥"
१ छाया
स्तोकेनापि सत्पुरुषाः सनत्कुमार इव केचिद् बुध्यन्ते । देहे क्षणपरिहाणिः तत् किल देवः तस्य कथितम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org