________________
श्रीजिनसूरमुनिवर्यविरचिता
" 'मोदका मण्डकाः पञ्च, घृतखण्डविमिश्रिताः ।
मुद्माषवटी चैव, तकं ताम्बूलकं तथा ॥ १२८॥" । एष श्लोकः पठितः । राज्ञा मानितम् । कैश्चित् सभामध्ये प्रोक्तम्-चूडामणिका गतवार्ता विन्दन्ति, न पुनरागामिकीम् । भूयो भूपेन पृष्टः-अहमद्य किं भोजनं करिष्यामि । सिद्धेनोक्तम्-मुद्गपानीयम् , तदपि सन्ध्यायाम् । राज्ञोक्तम्-इदमप्यसत्यम् । मम शरीरे आरोग्यं विद्यते । ज्वरादि किमपि नास्ति। अथवा अधुनैव सर्व ज्ञास्यते । सभालोकस्य विस्मयो जातः । सिद्ध आह-यदि स्वामिन् ! एतत् सत्यं मिलितं तदा अनेनामिज्ञानेन अस्य प्रियङ्करस्य राज्यं भविष्यतीति ज्ञेयम् । नृप आह—तद् कस्मिन् दिने ? । सिद्धः प्राह"माघमासे सिते पक्षे, पूर्णायां गुरुवासरे ।
पुष्ये प्रियङ्करो राजा, भविष्यति न संशयः ॥१२९॥" राज्ञा तत्क्षणात् प्रियङ्करो मोचितः स्वगृहे सारवस्त्रैः सत्कृतः । यतः-- "कप्पड पगि पगि लहई, के कंचणनी रासि ।
रायमाण केता लहइ, के न लहइ साबासि ॥ १३० ॥" ततो राज्ञा स्वपार्श्वे स्थापितः । बहीं वेलां सिद्धेन सह गोष्टीः कृत्वा सभा विसर्जिता । राजा गृहमध्ये समागत्य दन्त१ 'मोक्षका' इति ङ-पाठः। २ तात्पर्यम्कर्पटानि पदे पदे लभन्ते केऽपि काश्चनस्य राशिम्। राजमानं केचिल्लभन्ते को न लभते शुभाशीः (8)॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org