________________
प्रियङ्करनृपकथा ।
VU
राज्ञा पुनः पृष्टः- किं किं वेत्सि ?। तेनोक्तम्"जीवितं मरणं नृणां, गमनागमनं तथा ।
रोगं योगं धनं क्लेशं, सुख दुःखं शुभाशुभम् ॥१२५॥" पल्लीपतिः प्राह-तर्हि त्वं कथय-अस्मद्वैरिणः अशोकचन्द्रनृपस्य कदा मरणं भविष्यतीति येनास्मद्देशः सर्वो गृहीतः । सिद्धेनोक्तम्-एकान्ते कथयिष्यामि । राजा पाह-अत्र सर्वेऽप्याता एव सन्ति, त्वं वद । सिद्ध आह"षट्कर्णो भिद्यते मन्त्रः, चतुष्कर्णो न मिद्यते । द्विवर्णस्य तु मन्त्रस्य, ब्रह्माऽप्यन्तं न गच्छति ॥१२६।" ततो नृपकर्णे प्रविश्य तेनोक्तं नृपमरणस्वरूपं, नात्र सन्देहः । ततो राज्ञा प्रकटमेव पृष्टः-तत्प? क उपवेक्ष्यति ? तेनोक्तम्-क्षणमेकं ध्यात्वा-राजपुत्राणां राज्यं न भविष्यति । अस्य गोत्रेऽपि राज्यमतःपरं न भविष्यति । किन्तु यस्त्वया पुण्याधिक: खो(षो)डके क्षिप्तोऽस्ति तस्यैव राज्यं देवतादत्तं भविष्यति । नृपः प्राह-हे सिद्ध ! किमसम्बद्धं भाषसे ? ज्ञातं तव ज्ञानम् । अस्य राज्यधनेन किम् ? निर्गत एष निर्धनो वणिक अस्य नामापि न ज्ञातम् । यस्य पुण्यं स्यात् तस्य सर्वत्र ज्ञायते । उक्तं च
" विश्वेऽपि ज्ञायते नाम, केषां पुण्यवतां स्फुटम् । . नल-पाण्डव-रामाणां, केषां गेहेऽपि नो भवेत् ? ॥१२७॥"
सिद्ध आह-अत्र सन्देहो न कार्यः। चेद् न मन्यसे तदा प्रत्ययं वदामि-कल्ये यत् त्वया भुक्तं तत् कथयामि । राजाऽऽह-त्वं वद । ततः सिद्धः प्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org