________________
श्री जिनसूरमुनिवर्यविरचिता
तद्वचनचातुर्येण पल्लीपतिर्विस्मितः कथयति - कुमार ! त्वां मुचामि यदि त्वं मत्कथितं करोषि । कुमारेणोक्तम्-तत् किम् ? राजाऽऽह - मत्सेवकान् त्वद्गृहे रहोवृच्या स्थापय दिनसप्तकं यथा ते तत्र स्थिताः राजपुत्रं मन्त्रिपुत्रं वा बद्ध्वा अत्रानयन्ति, स्ववैरं वालयामि । कुमारः प्राह - अकर्तव्यं सर्वथा न करिष्यामि । यद् भवति तद् भवतु । यतः -
३८
" अकर्तव्यं न कर्तव्यं, प्राणैः कण्ठगतैरपि । सुकर्तव्यं तु कर्तव्यं, प्राणैः कण्ठगतैरपि ॥ १२२ ॥”
राज्ञो विरुद्धकरणे जीवितव्यं न स्यात् । यतः - " देशग्रामनृपादीनां विरुद्धानि सृजन्ति ये । इहैव बन्धनं क्रेशं, मरणं प्राप्नुवन्ति ते ॥ १२३ ॥”
राजा रुष्टः सेवकान् समादिशत् - एनं ? खो ( पो) डके क्षिपत । ततस्तैः खो (षो) डके क्षिप्तः । तत्परितो रक्षकाः स्थिताः । कुमारचिन्तयति - श्रीगुरुभिरुक्तमभूद् - विषमसङ्कटे पतिते विशेषत उपसर्ग हरस्तवनं गुणनीयम् । ततस्तेनैकचित्तेन 'उवसग्गहरं पासं'इति स्तवनं १२ सहस्रवारं गुणितम् । तदवसरे वैरिनृपस्य मनो वलितम् । एष वराको मुच्यते । अनेन स्थापितेनापि किं स्यात् १ तद तत्सभायां ज्ञानवान् विद्यासिद्धः कोऽपि समागत आशीवचनं दत्त्वोपविष्टः । राज्ञा पृष्टं स्वागतम् स प्राह
सौम्यदृष्टया नरेन्द्राणां प्रजानां हितवाक्यतः । आत्मनश्चित्तवात्सल्यात्, सुखितोऽस्मि निरन्तरम् ॥ १२४॥"
१ खोडकं काष्ठमयी कारा मरुदेशप्रसिद्धा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org