________________
प्रियङ्करनृपकथा |
"सुण रे पासा ! मुझ वचनविलासा मति मुकिस तु मुखि नीसासा । देव हूया प्रियंकरदासा
आवस परणी पंचमि वासा ॥ १२० ॥" इमां देववाणीं श्रुत्वा श्रेष्ठी हृष्टो गृहेऽगात् । भार्यायै ज्ञापितम् । साऽपि सहर्षाऽभूत् । इतः श्रीपर्वते प्रियङ्करस्य यज्जातं तत् शृणुत- ततः प्रातः प्रियङ्करः सीमालराज्ञा पल्लीपतिना आकार्य पृष्टः - श्रावकस्त्वम् ? स आह- 'अशोक' नगरवासी निर्धनो वणिक आसन्नग्रामे पोट्टलकं कृत्वा निर्वाहं करोमि । मत्पिता वृद्धः । मदेकपुत्रा माता । अहं न जाने केनापि कारणेन त्वज्जनैर्बद्ध्वा आनीतः । नृपः प्राह - अशोकनगरस्वामी अशोकचन्द्रो राजा अस्मद्वैरी वर्तते, तेन तन्नगरवासिनः सर्वेऽपि वैरिण एव | अपरं मज्जनैर्मन्त्रिपुत्रस्य ग्रामं गतस्य मार्गे बद्धोऽभूत् । परं स हस्ते न चटितः, तत्स्थाने त्वं बद्धः । प्रियङ्करः प्राह - स्वामिन्! मम वराकस्य बन्धनेन किम् ? मां नगरे कोऽपि नोपलक्षयति । रोगोऽन्यस्य, सेकप्रदानमन्यस्य । चक्षुर्दुः खतः कर्णौ बध्येते । रावणेनापराधः कृतः, कपिभिः समुद्रो बद्धः । राज्ञा सह वैरं, अहं निरपराधो वणिग् बद्धः । उक्तं च
" अन्नेहिं कयवराहे, अन्नस्स पडंति मत्थर णत्था । रावणकrवराहे, कॅविहिं बद्धो समुद्दो य ।। १२१ ॥ " १ तात्पर्यम्—
शृणु रे पास ! मम वचनविलासान् मा मुश्च त्वं मुखे निःश्वासान् । देवा अभूवन् प्रियङ्करदासाः आगमिष्यति परिणीय पञ्चमे वासरे ॥
२ छाया
अन्यैः कृतापराधे अन्यस्य पतन्ति मस्तकेऽनर्थाः । रावणकृतापराधे कपिभिर्ब्रद्धः समुद्रश्च ॥
३ ' गिरीहिं' इति क - पाठः ।
Jain Education International
For Private & Personal Use Only
३७
www.jainelibrary.org