________________
३६
श्रीजिनसूरमुनिवर्यविरचिता
अद्य पुत्रं विना गृहं शून्यमिव दृश्यते । उक्तं चअपुत्रस्य गृहं शून्यं दिशः शून्या अबान्धवाः । मूर्खस्य हृदयं शून्यं, सर्वशून्यं दरिद्रता ।। ११७ ॥"
44
तावता केनाप्युक्तम् - श्रेष्ठिन् ! त्वत्पुत्रं विवध्य भिल्लाः श्रीपव लात्वा गताः । तत् श्रुत्वा पितरौ दुःखिनौ जातौ । विशेषानमस्कारोपसर्गहरस्तवन गुणनभोगकरणादिपुण्यपरौ जातौ ।
यतः
" वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा । सुतं प्रमत्तं विषमस्थितं वा
रक्षन्ति पुण्यानि पुराकृतानि ॥ ११८ ॥ "
तदा श्रीपासदत्तस्य देवतयोक्तं वचः स्मृतम् । ततः अगुरुकर्पूर- कस्तूरिकाप्रमुखभोगं लात्वा राजवाटिकामध्ये देवताधिष्ठिताम्रवृक्षस्थाने स भोगं कृतवान् । तेनोक्तम् — भो देव ! त्वया पुत्रस्य राज्यं कथितमभूत् । प्रत्युत नष्टं जातम् । न मृषाभाषिणो देवाः । यतः
" प्रतिपन्नानि महतां युगान्तेऽपि चलन्ति न । अगस्तिवचनैर्बद्धो, विन्ध्योऽद्यापि न वर्धते ।। ११९ ।।” कष्टे च त्वमेवास्माकं शरणम् । देवः प्रोचे - श्रेष्ठिन् ! चिन्तां मा कुरु । देवसत्का वागभूद् यथा
१' वृद्धोऽद्यापि न पर्वतः ' इति क - पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org