________________
प्रियङ्करनृपकथा ।
३५ अहं गृहभारं निर्वाहयिष्यामि । व्यवसायं करिष्यामि । पुत्रः स एव यः स्वपितुश्चिन्तामुत्तारयति । उक्तं च
" एकेनापि सुपुत्रेण, सिंही स्वपिति निर्भरम् । __ सहैव दशभिः पुत्रै-औरं वहति गर्दभी॥ ११५॥" . एकदा पित्रा प्रियङ्करः आसन्ने 'श्रीवास'ग्रामे उदाहणिकार्थे प्रेषितः। तां कृत्वा सन्ध्यायां पश्चाद वलन (मान: १) स भिल्लैबंद्धः, श्रीपर्वते दुर्गे स्वस्थाने नीतः। स्वसीमालराशे ज्ञापितः । स कारायां क्षेपितः । ततस्तस्य पितरौ सायं पुत्रमार्ग विलोकयतः स। हे पुत्र ! त्वमयैव प्रेषितः नागतः, कसात् रुष्टः १, केनापि पराभूतोवा? । वत्स ! अद्यागच्छ स्वं दर्शय । कदा अतः परं त्वां कस्मिन्नपि कार्ये न प्रेषयिष्यावः । माता प्राह-वत्स ! प्रियङ्कर! मम त्वमेवैकः पुत्रोऽसि । दुःखेन पालितोऽसि इष्टः कान्तो मनोज्ञो मनोहरणो 'विश्वसंमतो बहुमत आभरणकरण्डिकासमानरत्नभूतः अस्माकं जीवितोल्लासको हृदयानन्दनः अम्बरपुष्पमिव दुर्लभः स्वग्नेऽपि, किं पुनर्देशनेनापि इति पुत्रगुणान् गृह्णन्ती विलापान् करोति । यथा
"अवरं सव्वं पि दुहं जणाण कालंतरेण वीसरह । वल्लहवियोगदुक्खं मरणेण विणा न वीसरह ॥ ११६ ॥"
१ 'श्रीनामनामे' इति ङ-पाठः । २'श्रीपर्वतदुर्गे' इति -पाठः । ३ 'विश्वस्तः सम्मतः बहुमतः अनुमतः आभरण.' इति ङ-पाठः। ४ छाया
अपरं सर्वमपि दुःखं जनानां कालान्तरेण विस्मयते । वल्लभवियोगदुःखं मरणेन विना न विस्मयते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org