SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीजिनसूरमुनिवर्यविरचिती पद्मावती-वैरोट्यादयः सान्निध्यं कुर्वन्ति । अनेनाखण्ड १२००० गुणितेन सर्वकार्याणि सिध्यन्ति । दुष्टग्रह-भूत-प्रेत-शाकिनीडाकिनी-मारी-ति-रोग-जला-ऽनल-व्यन्तर-दुष्टज्वर-विषधर-विषचौर-राज-रणादिभयानि स्तवनस्मरणाद् दूरतो यान्ति । सुखसन्तानसमृद्धिसंयोगमृतवत्सापुत्रप्राणदकार्याणि स्युः। उक्तं च" सर्वोपसर्गहरणं स्तवनं पुमान् यो ध्यायेत् सदा भवति तस्य हि कार्यसिद्धिः। दुष्टग्रहज्वररिपूरगरोगपीडा नाशं प्रयान्ति वनिताः ससुता भवन्ति ॥ ११२॥ उपसर्गहरं स्तोत्रं, ध्यातव्यं भौविना त्वया । कष्टे च प्रथमा गाथा, गुणनीया विशेषतः ॥११३ ॥" तदनु प्रियङ्करणोपसर्गहरस्तवनगुणननियमो गृहीतः। स प्रत्यहं गुणयति । नियमभङ्गे षड्विकृतित्यागं करोति । तस्य नित्यस्मरणात् सिद्धमन्त्रसिद्धिरभूत् । यद् यत् कार्य करोति तत् तत् सफलं स्यात् । पुत्रप्रियङ्करः स्वपितुः कथयामास-तातपादाः! यूयं धर्ममेव कुरुत । यत उत्तराध्ययने प्रोक्तम्" जी जा वच्चइ रयणी, न सा पडि नियत्तइ । धम्मं च कुणमागस्स, सहला जंति राईओ ॥११४ ॥" १ 'प्रापणकार्याणि ' इति -पाठः। २ 'भावतः' इति ड-पाठः । ३ 'मन्त्रसदृशमभूत् ' इति ङ-पाठः । ४ छाया या या ब्रजति रजनी न सा प्रतिनिवर्तते। धर्म च कुर्वतः सफला यान्ति राश्यः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy