________________
प्रियङ्करनृपकथा ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः ॥ १०८ ॥ प्राप्ते महेभ्यवर्गेऽपि, चारित्री वर्णप्रश्निते (१) । मूर्खपुत्रोऽवदत् तत्र, द्वारस्थाने कपाटकम् ॥ १०९ ॥" प्रियङ्करः सम्यक्त्व - रत्नत्रय - नवतच्च- द्वादशवत विन्महाश्रावको जातः । गुरुभिरुक्तम् — महानुभाग ! लघुत्वेऽपि धर्मः कार्यः । यतः -
दीहा जंति वलंति नहु जिम गिरिनिज्झरणाईं । लहुअ लगइ जीव ! धेम्म करि सुइ निचितो कांई ॥ ११० ॥ "जरा जाव न पीडेड, वाही जाव न वढ्ढह |
जावंदिया न हार्यिति, ताव धम्मं समायरे ॥ १११॥"
ततः प्रियङ्करः प्रत्यहं सामायिक पूजा- प्रत्याख्यान- दया-दानचुण्यानि करोति । श्रीगुरुभिस्तस्य धर्मश्रद्धां ज्ञात्वा उपसर्गहरस्य स्तवस्याम्नायाः कथिताः । ' उवसग्गहरं' स्तवनं मौनेन पवित्री - भूय प्राङ्मुखमेकान्ते गुणनीयम् । एतत्स्तवनमध्ये श्रीभद्रबाहुश्रुतकेवलिना महामन्त्रा अनेके गोपिताः सन्ति येन धरणेन्द्र
१' पूजिता ' इति ङ-पाठः । २ ' व्रतादिप्रतिपत्त्या' इति घ- पाठः । ३ तात्पर्यम् -
दीर्घाणि यान्ति वलन्ति न खलु यथा गिरिनिर्झरणानि । लाघवं यावत् जीव ! धर्म कुरु स्वपिषि निश्चिन्तः कथम् ? ॥ ४ 'पुण्य' इति घ-पाठः ।
५ छाया
३
जरा यावन्न पीडयति व्याधिर्यावन वर्धते ।
याव दिन्द्रियाणि न हीयन्ते तावद् धर्मं समाचरेत् ॥
३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org