________________
प्रियङ्करनृपकथा ।
अस्माभिः तदा मुधा धनगर्वेण त्वमपमानिता । अन्यैरपि कैश्चित् धनस्वजनसंयोगभोगपुत्राद्यहङ्कारो न कार्यः । उक्तं च" पूर्णोऽहमषैरिति मा प्रसीद
रिक्तोऽहमथैरिति मा विषीद । रिक्तं च पूर्ण भरितं च रिक्तं
करिष्यतो नास्ति विधेविलम्बः ॥ ९८ ॥ कल्लोलचपला लक्ष्मीः, सङ्गमाः स्वप्नसनिभाः।
वात्याव्यतिकरोत्क्षिप्त-तूलतुल्यं च यौवनम् ॥९९॥" ततः श्रेष्ठिना सर्वे स्वजना विसर्जिताः स्वस्वस्थाने प्राप्ताः । प्रियङ्कर उद्यमेन शास्त्राणि पठति । पण्डितोऽपि तस्य विनयगुणरञ्जितो हितेन विद्यां दत्ते। " विनयेन विद्या ग्राह्या, पुष्कलेन धनेन वा।
अथवा विद्यया विद्या, चतुर्थ नैव कारणम् ॥ १०॥ सिंहासणे निसन्न, सोवाग सेणिओ नरवरिंदो। विजं मग्गइ पययं, इय साहुजणस्स सुअविण ओ॥१०१॥" स्तोकदिनैः सकलविद्याकुशलो जातः । यतः" प्रथमे वयसि ग्राह्या, विद्या सर्वात्मना बुधैः ।
धनार्जनं द्वितीये च, तृतीये धर्म पङ्ग्रहः ॥१०२॥" तदनन्तरं श्रीगुरुसमीपे प्रियङ्करो धर्मशास्त्राणि पठति । गुरवोऽपि विनयगुणेन तं शिक्षयन्ति । यतः१छायासिंहासने निषण्णं श्वपाकं श्रेणिका नरवरेन्द्रः विद्या मार्गयति प्रकृतमिति साधुजनस्य श्रुतविनयः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org