SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३० श्रीजिनसूरमुनिवर्यविरचिता भार्यायाः पुण्यवत्या निधानं लब्धं राज्ञे दर्शितं राज्ञा अस्यैव दत्तं, - राज्ञो माननमस्ति । सर्वेऽपि स्वजनाः प्रोचुः - | 44 अस्य श्रेष्ठिनः पुण्यं फलितम् । यतः - सुकुलजन्म विभूतिरनेकधा प्रियसमागमसौख्य परम्परा । नृपकुले गुरुता विमलं यशो भवति धर्मतरोः फलमीदृशम् ॥ ९५ ॥" पासदत्तेन महेभ्यानां सर्वेषां स्वजनानां अपूर्ववस्त्राणि दत्तानि । प्रियश्रिया भगिनीनां पट्टदुकूलानि दत्तानि । तदनु प्रियङ्करपुत्रो महता महेन लेखशालायां पण्डितपार्श्वे अध्यापनाय मुक्तः । भगिन्या स्वभगिन्यः साग्रहं सादरं सस्नेहं कियद्दिनानि स्थापिताः, परं स्वसारः सर्वा लज्जिताः । अन्योन्यं कथयन्ति - उत्तममध्यम महदन्तरं ज्ञेयम् । एषाऽपि स्त्री वर्तते । परं गम्भीरत्वं चातुर्य कीदृशं वर्तते स्वजनेषु वात्सल्यं च १ । यतः - " वा जिवारण लोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयानां, अन्तरं महदन्तरम् ॥ ९६ ॥" अस्माभिः मुधा हास्यं कृतम्, यतःहास्यान्महान्तो लघवो भवन्ति हास्यम्य नाका ( 2 ) वनितां च मुक्तवान् । ज्ञानं गतं क्षुल्लवस्य हास्यात् हास्याच मित्राणि भवन्ति शत्रवः ॥ ९७ ॥ " : स्वभगिनी क्षा मता । सा वक्ति-भवतीनां किमपि दूषणं स्त, मया प्राक शुभकर्मणः फलम् । ता आहु: Jain Education International - For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy