SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ -२८ श्री जिनसूरमुनिवर्यविरचिता चटत्वा स्वयं निमन्त्रणाय तगृहे अगमत् । तुरङ्गमवस्त्राडम्बरं दृष्ट्वा ताः प्रतिपत्तिं चक्रुः । श्रेष्ठी सर्वानपि स्वजनान् बहुमानपूकार्य समागतः । सर्वेषामतिथीनां स्वस्वजनवर्गेभ्यः प्रतियत्तिमादरं च कारयामास । यतः - " पानीयस्य रसः शैत्यं, भोजनस्यादरो रसः । आनुकूल्यं रसः स्त्रीणां, मित्रस्य वचनं रसः ॥ ९३ ॥ " सर्वेषामुतारका दत्ताः । तुरङ्गमवृषभादीनां स्वस्वजनवर्गेभ्यो गुडघृतखाणवारिप्रमुखं दापयामास । भगिनीनां प्रियश्रीः प्रतिपतिं कुर्वती कथयति - युष्माकमद्यात्र सामान्यगृहे नाचडि - ष्यति । भगिन्यो गृहाडम्बरवस्त्राभरणाम्बरादि दृष्ट्वा हृदये विस्मयं चक्रुः परं पुरुषभाग्ये को विस्मयः । । यतः " दाने तपसि शौर्ये च विद्यायां विनये नये । विस्मयो न हि कर्तव्यो, बहुरत्ना वसुन्धरा ॥ ९४ ॥" ततः श्रेष्ठी भोजनावसरे सर्वस्वजनानां स्थालीवर्तुलिकादि मण्डयित्वा शर्करापानीयं पूर्वं परिवेषयामास । ततः कुङ्कणकदलीफल - कोहलापाक - खारिक- खजुर खांड - गुंदवड - घेवर चारबी- चारोली - जलेबी - टुप्पर-कद मीरु (१)- द्राख-नीलीद्राख -दाडिमकुली-पनीस (?) - फीणी- पोउआ वसोलां - वायम- पिस्तां-अपोड-सेलडी. शृङ्गाटकप्रमुखफलावली परिवेषिता । ततः खाजां - सुहाली-तिलसांकली - पसषस सांकुचिम- मांडी-मुरकी - सेवहआलाडू -दलीआ- लाडू- मोतीआलाडू-चारोलीलाडू - वाजणालाडू एवं पकान्नानि परि १ ' टोपरां- दाडिम-द्राख-नीलीद्वाख - फणस फोणी-साटा- वरसोला - निमजां- पिसतां - सिता-अखोड-बदाम-सेलडी- भृंगाटिक प्रमुख०' इति ङ-पाठः । ८ २ ' झगरिआलाडू' इत्यधिको ङ-पाठः । ३ ' प्रमुखागां' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001867
Book TitlePriyankarnrupkatha
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1932
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari, Story, Stotra, & literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy